SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ वृहत्कापसूत्रे इत्यादि । तभ्वाशनादिकम् आहत्य कदाचिदनाभोगादिकारणेन यदि 'उवाइणाविए' उपानायितं प्रथमपौरुष्यां गृहीत्वा चरमपौरुण्या प्रापितं स्यात् पौरुषीत्रयमुल्लमय चतुर्थी पौरुषी प्राप्ता भवेत् तदा प्रथमपौरुष्यानीतं तदशनादिकं नो नैव आत्मना स्वयं भुञ्जीत न स्वयं तस्योपभोग कुर्यात् , नो नैव च अन्येभ्यः श्रमाणादिभ्यः मनुप्रदद्यात् । तर्हि किं कर्तव्यम् ! इत्याह- 'एगते' इत्यादि, तत् प्रथमपौरुषीगृहीतमशनादिकं एकान्ते विजने गमनागमनरहिते बहुप्रामुके जीवरहिते अचित्ते स्थण्डिले भूमिप्रदेशे यत्र तदाहारप्रसङ्गेन द्वीन्द्रियादिजीवोत्पत्तिर्न भवेत् तत्प्रकारेण प्रतिलेल्य स्थण्डिलस्य चक्षुषा सम्यग् निरीक्षणं कृत्वा तथा प्रमृश्य तस्य स्थानस्य र जोहरणेन सम्यक्तया प्रमार्जनं कृत्वा परिठापयित्तव्यं स्यात्, एकान्ते बहुप्रासुके भूमिग्रदेशे प्रतिलेखनप्रमार्जनपूर्वक निक्षेतन्यम् । किमर्थ परिठापनीयमित्याह-तदशनादिकम् आत्मना स्वयं भुनान; अन्यस्म वा ददानः स आपद्यत प्रप्नोति चातुमासिक परिहारस्थानम् उद्घातिकं चतुर्लघुकं प्रायश्चित्तमिति सूत्रा. शयः ॥ सू० १६ ॥ पूर्वमशनादिविषये कालातिक्रमः प्ररूपितः, सम्प्रति क्षेत्रातिक्रमसूत्रमाह-'नो कप्पइ' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधाण वा निग्गंधीण वा असणं वा पाणं वा खाइम वा साइमं वा परं अद्धजोयणमेराए उवाइणावित्तए, से य आहच्च उवाइणाविए सिया तं नो अपणा इंजिना, नो अन्नेसिं अणुपएज्जा, एगते बहफामुए थंडिले पडिलेहित्ता पमज्जित्ता परिट्टवेयचे सिया, तं अप्पणा जमाणे अन्नेसि बा दलमाणे आवज्जइ चाउम्मासियं परिहारहाणं उग्याइयं ।। मू. १७ ॥ छाया-नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा अशनं वा पान वा खाद्यं चा स्वार्थ वा परम् अर्ययोजनमर्यादायाः उपानाययितुम्, तच्च आहत्य उपामाथितं स्थात् तव नो आत्मना भुजीत नो अन्येभ्यः अनुप्रधान, पक्रान्ते बझुप्रासुके स्थण्डिले प्रत्यु. पेक्ष्य प्रमाद्यं परिष्ठापयितव्यं स्यातू, तद् आत्मना भुमानः मन्येभ्यो वा ददानः बापद्यते चातुर्मासिक परिहारस्थानम् उद्घातिकम् ॥ सू. १७ ॥ चूर्णी - 'नो कप्पई' इति | नो कल्पते निम्रन्थानां निम्रन्थीनां 'असणं वा ४' अशनादिकं चतुर्विधमाहारम् अर्द्धयोजनमर्यादायाः कोशद्वयरूपाया मर्यादायाः मीमायाः परम- अनन्तरम क्षेत्रम् उपानाययितुम्-कोशद्वयलक्षणसीमानमतिकामयितु नो कल्पते इति पूर्वेण सम्बन्धः, गृहीतमशनादिकं तत्क्षेत्रात् कोशद्वयाभ्यन्तरक्षेत्रे एवं भोक्तुं कल्पते न तु क्रोशद्वयानन्तरक्षेत्रे इति भावः । तच्चाशनादिकम् भाहत्य कदाचित् यदि भनाभोगादिकारणवशाद् उपानाथितम् गृहीता. शनादि क्षेत्रात् क्रोशद्वयात् परक्षेत्रे प्रापितं स्यात् तदा तदशनादिकं न स्वयं मुजीत, नान्येभ्यः श्रमणादिभ्यः प्रदधात् अपितु तदशनादिकं बहुप्रासुके स्थण्डिले प्रतिलेख्य प्रमृज्य तत्राचित्तभूप्रदेशे परिष्ठापयितव्यं स्यात् । यदि तदशमादिकस्य स्वयं भोक्ता अन्येभ्यः प्रदाता वा भवेत्
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy