________________
वृहत्कल्पचने भावः २ । साम्प्रतमन्यवशमितप्रामृत व्याचष्टे-यः स्वल्पेऽपि परुषभाषणादौ अपराधेश्यन्तकोधसमुद्घातं याति, एवं क्षामितो न प्रशाम्यति प्रत्युत क्षामितमध्यपराधजातं पुनः पुनः समुदीरयति स खल्ल अव्यवशमितप्रामृतो व्यपदिश्यते, तस्य वाचनादाने ऐहलौकिकस्नेहसत्कारादिपरित्यगः, पारलौकिकवैरानुबन्धकर्मबन्धसंभवश्चेति द्विघाप्यहितकरं तद्वाचनादानं संपद्यते इति न तादृशाय वाचना दातव्येति भावः ।। सू० १०॥
पूर्वसूत्रे अविनीतादित्रितयस्य श्रुतार्थवाचनादानं प्रतिषिद्धम् , सम्प्रति तद्वैपरीत्येन विनीता. दित्रितयस्य तद्वाचनादानमनुज्ञापयति-'तओ कप्पंति वाइत्तए' इत्यादि ।
सूत्रम्-तो कप्पति वाइत्तए, जहा-विगीए, नोविगइपडिबद्ध, विओसवियपाहुडे ।। ५. ११ ॥
छाया-त्रयः कल्पन्ते पाययितुम्, तद्यथा-विनीतः, नोधिकृतिप्रतिषः, स्थषः शमितमाभृतः ॥ खू० ११ ॥
चूर्णी—'तो' इति । त्रयः पुनर्वक्ष्यमाणस्वरूपाः शिष्याः वाचयितुं-सूत्रार्थों प्राहयितुं अमणानां कल्पन्ते । तद्यथा-विनीतः आचार्यादेवन्दनादिविनययुक्तः, नोविकृतिप्रतिबद्धः घृतादिरसझोलुपतावर्जितः, व्यवशमितप्राभृतः-व्यवशमितम्-क्षमापनादिना उपशमित प्राभूतं नरकपातनोपायनमिव प्राभृतं तीनकोधलक्षणं यस्य स व्यवपशमितप्राभृतः स्वापराधक्षमापन-परापराधक्षमनसमर्थः उपशान्तकोष इत्यर्थः । एते प्रयः विनीत-विकृत्यप्रतिबद्ध-व्यपशमितप्रामृताः पुरुषाः श्रुतार्थों वाचयितुं श्रमणानां कल्पन्ते इति सूत्राशयः । विनयेन अभ्यस्तीकृता विघा लोकद्वये फलवती भवति, तत्रास्मिन् लोके साधुजनसमाजराजसभादौ विनयगृहीतविधया समादृतः पूजितश्च भवति, यशाकीर्ति च्याति-सम्मान-प्रतिष्ठादिकं च लभते, परलोके च विनयप्राप्तविधया सम्यग्ज्ञानदर्शनचारित्रलक्षणरत्नत्रयविभूषितो लन्धिसंपन्नो भगवदाज्ञाराधकः सन् निःश्रेयस प्राप्नोति । विकृत्यप्रतिबद्धो हि घृतादिरसलोलुपतारहितत्वेन एकाग्रमनसा श्रुतार्थी गृहाति, तेन तत् श्रुतार्थग्रहणं हृदये सुचारुतया परिणमति, ततः सः सम्यक्तया ज्ञानदर्शनचारित्राराधको भवति, तस्य श्रुतार्थवाचने वाचनादातुस्तीर्थकराज्ञाभलादयो दोषा न भवन्तीति । एवं व्यवशमितप्रामृतस्यापि उपशान्ततीवक्रोधत्वेन शान्तमनोभावस्य प्रदत्ता याचना सम्यकतया परिणमति तेन सा सुगतिबोधिलाभादिकमामुष्मिकं फलं प्रापयतीति सूत्रोक्तानां त्रयाणां सूत्रार्थतदुभयवाचना दानं श्रमणानां कल्पते, यथा उर्वराभूमौ उनि बोजानि फलितानि भवन्ति तथैवेतेषां श्रुतार्थदान सफल भयतीति भावः ॥
ननु पूर्वसूत्रे अविनीतादित्रयाणां वाचनादानस्य प्रतिषिद्धतया तेनैव कथनेन अर्यापत्तिन्यायात् तद्विपरीतानां विनीतादीनां वाचनादानं स्वयं सिद्धमेव, विपक्षार्थस्यानुक्तस्यापि सिद्धिलाभा