SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ફ कल्पसूत्रे कृतवन्तस्तदपि न समीचीनम् । इत्यादिरूपमवर्ण तीर्थकृतां यो भाषते स पाराश्चिकप्रायश्चित्तस्थानमापयते । एवं प्रवचनश्रुताचार्यादि विषयाऽऽशातनाप्रकाराः स्वयम्हनीयाः, एष आशातनापाराविको बोध्यः । द्वितीयः प्रतिसेवनापाञ्चिकः । पाराचिका अस्मिन्नेव सूत्रे प्रतिपादितात्रयो भवन्तीति ॥ २ ॥ शकारः - 'दुविष्ठो' इत्यादि । भाष्यम् दुविहो दुवो कुत्तो, पंचविहो होइ जो पत्तो उ । अन्नोन्नं कुव्वा णेगविहो एस णायच्वो ॥ गा० ५ ॥ छाया - द्विविधो दुष्ट उक्तः पञ्चविधो भवति यः प्रमशस्तु । अम्योन्यं कुर्वाणः अनेकविध पष ज्ञातव्यः ।। ५ ।। अत्रचूरी-- 'दुविहो' इति । अत्र प्रथमो दुष्टः पाञ्चिको द्विविधः प्रोक्तः तथाहि-- कषायदुष्टः विषयदुष्टश्चेति । तत्र कषाय दुष्टो द्विविधो भवति - स्वपक्षदुष्टः परपक्षदुष्टश्ध, अत्र चतुर्भङ्गी भवति तथाहि - स्वपक्ष: स्वपक्षे, स्वपक्षः परपक्षे २, परपक्षः स्वपक्षे ३, परपक्षः परपक्षे ४ । तत्र स्वपक्षः स्वपक्षे एकः साधुरन्यसाधूपरि कषायं करोति, अत्र दृष्टान्तः सर्षपपत्रशाकभोक्तमृत गुरुदन्तभञ्जकः शिष्यः, तथाहि - शिष्येण भिक्षायां सर्वपशाकः प्राप्तः तेन निमन्त्रितो गुरुः सर्व शाकमाहृतवान् तेन तस्य मनसि कोपः समुद्भूतः, यदनेन मद्गुरुणा सर्वोऽपि शाको भुत, गुरुणा क्षा मिलोऽपि नोपशान्तः सन् गुरुदन्तमञ्जनप्रविज्ञां कृतवान् तद् ज्ञात्वा गुरुर्भक्त प्रत्याख्यानेन कालधर्मे प्राप्तः, ततश्च स मृतगुरुमुखा इन्तान् त्रोटितवान् कथितवांश्च - एन एवं तव दन्ता सबै सर्वपशाकं भुक्तवन्त इति प्रथम दृष्टान्तः १ । एवमेव द्वितीय उज्ज्वलसदोरक मुखवस्त्रिकार्थं गुरोapi star गुरुं मारितवान् २ । एवमन्येऽप्येवं प्रकारा दृष्टान्ता विज्ञेयाः । इति प्रथमो भङ्गः ॥ १ ॥ द्वितीयः स्वपक्षः परपक्षे यथा कस्यचित् साथोर्गृहस्थावस्थायां केनापि सह वादी जातस्तत्र स पराजितो भूत्वा प्रब्रजितः । ततोऽवसरं प्राप्य स कयाचित् युक्त्या पूर्वकषायोदयेन तं मारितवान् । इति द्वितीयो भङ्गः २ । तृतीयः - परपक्षः स्वपक्षे यथा - गृहस्थावस्थायां केनापि वादे पराजितः एकः, यस्तं पराजितवान् स प्रत्रजितः, ततः स पूर्व पराजितो गृहस्थः प्रत्रजितं तं जयिनं साधु केनचिदुपायेन मारितवान् एष तृतीयभङ्गः ३ । चतुर्थः परपक्षः परपक्षे-गृहस्थी गृहस्थं मास्यति, इति चतुथों भङ्गः ४ । एष भङ्गः साधौ न घटते । उक्तः कषायदुष्टः सम्प्रति विषयदुष्टं विवृणोति-मत्रापि स्वपक्षपरपक्षमाश्रित्य पूर्ववदेव चत्वारो भङ्गा भवन्ति - यथा - स्वपक्षः स्वपक्षे विषयदुष्टः, इति प्रथम भङ्गः १ । एवं चत्वारोऽपि मङ्गाः पूर्ववदेव कर्त्तव्याः ४ । तत्र - श्रमणः श्रमण्यामध्युपपन्नः स्वपक्ष: स्वपक्षे विषयदुष्टः १ श्रमणो गृहस्थ स्त्रिया मध्युपपन्नः स्वपक्षः परपक्षे विषयदुष्टः २ । गृहस्थः श्रमण्यामध्युपपन्नः परपक्षः स्वपक्षे विषयदुष्टः ३ | गृहस्थो गृहस्थस्त्रियामध्युपपन्नः परपक्षः परपज्ञे विषयदुष्टः, ४ । एष भन्नः श्रमणपक्षे न घटते, इति चतुर्थो भङ्गः । एष द्विविधो दुष्टपारा
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy