SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाग्यावचूरी ० ४ ० २ पाराचिकस्वरूपम् ८७ ञ्चिकस्तत्रः प्रथमः प्रतिपादितः । १ । द्वितीयं प्रमत्तपारायिकं विवृणोति - 'पंचविहो' इत्यादि यः प्रमत्तपाराञ्चिकः, स तु पञ्चविधोभवति प्रमादस्य पञ्चविषत्वात् तथाहि--मद्यप्रमत्तः १, विषयप्रमत्तः २, कपायप्रमत्तः ३, विकथाप्रमत्तः ४, निद्राप्रमत्तचेति ५ । वत्र मद्यप्रमत्तः मथपानोभूतप्रमादवान् ई, विषयगत श्रमादिविषयत्वेन २, कषायप्रमत्तःकषायाः क्रोधमानमायालो भाश्चत्वारः तेप्यन्यतमकषायवशेन प्रमादवान् ३ विकथाप्रमत्तः - विकथाश्चतस्रः- श्रीकथा १, देशकथा २, भक्तकथा ३, राजकथा ४ तासु आसकत्वेन प्रमादवान् ४, निद्राप्रमत्तः तत्र निद्रा पञ्चविधा - निद्रा १, निदानिता २, प्रचला ३, प्रचलाप्रचला ४, स्यानद्विश्चेति ५ । निद्राचतुष्टयस्य लक्षणं यथा"essist निer १, दुइपडिवोहो य निदनिश य २ । पयला होइ ठियस्स ३, पयलापथला उ चंक्रमओ ४ इति ।। १ ।। सुखप्रतिबोधो निद्रा १, दुःखप्रतिबोधश्च निद्रानिद्रा २ । प्रचला भवति स्थितस्य ३, प्रचलाप्रचला तु चक्रमतः ॥ २ ॥ इति प्रच्छाया ॥ आसां चतसृणां निद्राणां लक्षणं प्रोकम् अत्र पाराञ्चिकस्य प्रस्तुतत्वात्सत्या नर्द्धिनिद्रयाऽधिकाइति स्त्यानर्द्धिर्भाव्यते - स्त्यानद्विस्तावत् दर्शनावरणीयप्रबलकर्मोदयात् स्थाना कठिनीभूता आच्छन्ना ऋद्धिः चैतन्यशक्तिर्यस्यां सा स्त्यानद्धिः, यथा घृते जले च स्त्याने कठि नौभूते सति न तत्र द्रवत्वं किञ्चिदुपलभ्यते तथा चैतन्यऋद्वयामपि स्यानायां सत्यां न किञ्चिदुपलभ्यते । अस्यां निद्रायां प्राप्तायां मनुष्यो तदवस्थायामेव नानाविधानि महान्ति बलसाध्यानि दुश्चरणानि समाचर्य पुनरागत्य स्वपिति, स्त्यानर्द्धिमतो हि वासुदेबबलादर्ध बल भवति तीर्थकृदादयः प्रज्ञापयन्ति तत प्रथमसंहननिनमपेक्ष्य प्रोक्तम् सम्प्रति तु सामान्यजनापेक्षया द्विगुणं त्रिगुणं चतुर्गुणं वा बलं स्थानमितो भवतीति बोध्यम् । > एवं पिशित १ - मोदक २- कुम्भकार ३- दन्त ४ - वटशाखा - भञ्जनादि ५- कार्यैः, स्थानद्विनिद्रावानयमिति परिज्ञाय प्रमत्तपाराचिकं निर्णयेत् । तत्र प्रथमं पिशितष्टान्तो यथा- कश्चित् श्रमणः पूर्वं गृहस्थावस्थायां पिशिताशी आसीत् तेन च पश्चात् प्रवज्या गृहीता, एष कदाचित् कचित् हृष्टपुष्टं महिषं दृष्ट्वा संजाततन्मांसभक्षणाभिलाषः सन् एकदा रात्रौ स्यानर्द्धिनिद्रायां तस्मिन् महिषमण्डले गत्वा अन्यं महिषं व्यापाथ मुक्तवान् शेषं तन्मांसमुपाश्रये आनीय तेन स्थापितम् आचार्येण सबै ज्ञाखा निर्णीतं यदयं स्त्यामर्द्धिनिद्रावानिति । एषा स्त्यानर्द्धिनिद्रा | १ | मोदकदृष्टान्तो यथा - कश्चित् श्रमणः भिक्षार्थी पर्यटन् कस्यचिद् गृहस्थस्य गृहे मोदकं तं दृष्ट्वा तदग्रहणार्थं याचनायां कृतायामपि स मोदकं न खच्यवान्, ततश्च तदकामे तदध्यवसायपरिणत एवं सुप्तवान् । रात्रौ तद्गृहे त्या गृहस्य कपाट प्रोटयित्वा मोद - '
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy