SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ पणिमान्यापधुरी १० ३ सू० २९-३५ ....... उपाश्रयायेरवमहानुभापमाधिषिः ७९ चूर्णी--'से वत्थुन वावडे मु' इति । तस्य पूर्वोक्तस्य श्रमणस्य वास्तुषु व्याप्तेषु निवासव्यापारविशिष्टेषु, व्याकृतेषु दायादादिभिर्विभज्य एकेन स्वायत्तीकृतेषु परपरिंगहीतषु मन्यरघिष्टितेषु, 'भिक्खुभावस्स अहाए'-भिक्षुभावो ज्ञानदर्शनचारित्ररूपः तृतीयत्रतादिरूपो वा यथाऽयं भिक्षुभावो परिपूर्णो भवेदित्येवंरूपः, तस्यार्थाय प्रयोजनाय सम्यक्तया भिक्षुभावपालननिमित्त पूर्वस्थितश्रमविहारसमये यः समागच्छति तस्य दोच्चपि द्वितीयमपि वारं प्रथमं तैरवग्रहानुज्ञापना गृहीताऽतो द्वितीयवारमिति कथितम्, अवग्रहोऽनुज्ञापयितव्यः निवासार्थे गृहस्वामिन आज्ञा ग्रहीसन्या स्यात् तेन पुनरम्याज्ञा ग्रहीतव्येति भावः । कियकालमित्याइ-यथालन्दमपि जघन्ययथादकालं यावदपि यथालन्दकालार्थमपि अवग्रहोऽनुज्ञापयितन्य इति । तत्रावग्रहः पञ्चविधः-शकेन्द्रावग्रहः १, राजावग्रहः २, गाथापत्यवग्रहः ३ सागारिकावग्रहः ४, साधर्मिकावग्रहाचेति ५। पषु पञ्चविधेषु अवग्रहेषु यस्य यत्रावग्रह उचितो ज्ञायते तस्य तस्यावग्रहेण गृहीतेषु उपाश्रयादिपु श्रमणैर्वस्तव्यम् । यदि कुत्रापि वृक्षनलादिशून्यस्थाने यस्य कोऽपि स्वामी न भवेत्तत्र यदि वस्तव्यं स्यात्तदा शकेन्द्रस्यावग्रहोऽनुज्ञापवितव्यः । अत्र कश्चित् शङ्कते-कि शकेन्द्रोऽनुज्ञां ददाति येन तस्यावाहोऽनुज्ञाप्यते ? शृणु, यद् भगवतोयग्रहप्रतिपादकं वचनं श्रुत्वा शकेन्द्रस्तीर्थकरं वन्दित्वा यद यद अस्वामिकम् आत्मीयेऽवग्रहे साधुप्रायोन्य सचित्तं शिष्यादि, अचित्त मिश्र वा किमपि वस्तुजातं भवेत्तत्तत्तदानीं सर्वमपि भगवद्वचनाराधकत्वेन प्रसन्नमनसा साधुभ्योऽनुजानातीव्यत एवं शक्रेन्दस्यावग्रहः शास्त्रे प्रतिपादित इति ॥ मू० २९ ॥ ___ अथावग्रहप्रसङ्गादत्र सागारिकावग्रहस्य राजावग्रहस्य चावग्रहपरिमाणं प्रतिपादयितुमाह'से अणुकुड्डेसु' इत्यादि। _सूत्रम्-से अणुकुड्डेमु वा अणुभित्तिनु वा अणुचरियामु वा अणुफलिहामु वा अणुपंथेमु वा अणुमेराम वा सच्चेव उग्गहस्स पुन्वाणुपणवणा अहालंदमवि उमाहे ।। सू०३०॥ छाया-तस्य अनुकुडघेषु वा अनुभित्तिषु या मनुचरिकासु वा अनुपरिखासु था अनुपथेषुवा अनुमर्यादासु धा सेब अघप्रहस्य पूर्वानुशापना यथालन्दपि अयप्रदः ॥ सू०३०॥ __चूर्णी--'से अणुकुद्धेमु वा' इति । 'से' तस्य पूर्वोक्तस्य श्रमणस्य अनुकुडवेषु वा मृत्तिकानिमितभित्तिनिकटवर्तिपु स्थानेषु, अनुभित्तिपु वा इष्टकाप्रास्तादिनिर्मितमित्तिनिकटवत्तिषु प्रदेशेषु, अनुचरिकासु वा-नगरप्राकारयोरपान्तरालवर्तिषु अष्टहस्तप्रमाणमार्गेषु, अनुपरिखासु वा नगर. चतुर्दिकस्थितखातिकासमीपवर्त्तिषु प्रदेशेषु, अनुपयेषु वा मार्गसमीपवत्त्रिंघु स्थानेषु, अनुमर्यादासु वा-नगरसीमासमीपवर्तिपु स्थानेषु, एतेषु स्थानेषु सा एवं राजाऽनुज्ञा एव यत्र न कोऽपि गृहादि करोति जनसाधारणार्थमेव यानि स्थानानि नगरपामादिषु राज्ञा स्थापितानि भवन्ति तेषु स्थानेषु राजाज्ञा पूर्वमेवानुज्ञापिता भवति अतः सा एवावग्रहस्य पूर्वानुज्ञापना तिष्ठति
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy