SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यायचूरी उ०-३सू. २७-२९ . उपाध्यादेरवप्रहानुमापनाविधिः . अथ स उपाश्रय एवावग्रहस्य पूर्वानुज्ञापनायां तिष्ठति किमन्यदपि तत्रस्थित सागारिकमा के वस्तु पूर्वानुज्ञापनायां तिष्ठति । इति जिज्ञासायो तद्विषयक सूत्रमाह-'अस्थि या इत्य' इत्यादि । सूत्रम्--अस्थि या इत्थ केई उक्स्सयपरियावन्नए अचिचे परिहरणारिहे सच्चेब उग्गहस्स पुवाणुण्णवणा चिदइ अहालंदमवि उग्गहो ॥ सू० २७॥ छाया--अस्ति चात्र किञ्चिद उपाश्रयपर्यापन्नम् अचितं परिहरणाई सैव अवग्रहस्य पूर्वानुमापना तिष्ठति, यथालन्दमपि अवप्रहः ॥ सू० २७ ॥ चूर्णी-'अस्थि या इत्थ' इति । अस्ति चार पूर्वस्थितश्रमणपरित्यक्तोपाश्रये किश्चित्वस्त्रादिकम् उपाश्रयपापन्नम्-उपाश्रयं पयांपन्न स्थित श्रमणविहारसमये विस्मृतं परित्यकं वा सागारिकसत्क वा किमपि वस्तु स्थितम् उपाश्रयपर्यापन्नम्, अचित्तं वस्त्रादिकं पानादिकं वा तन्द् यदि परिहरणाई प्रासुकत्वेन साधूनां परिमोगयोग्य भवेन् तद्विषयेऽपि सा एव अवनहस्य अनुज्ञापना तिपति, तत्परिभोगः पूर्वानुज्ञापनयैव कर्तव्यः, न तपरिभोगेऽन्यानुज्ञापना प्रहीतल्या, तपरिभोगेन साधूनामदत्तादानादिदोषासद्भावादिति भावः । कियन्तै कालमित्याह-यथालन्दमपि मध्यम यथालन्दकालमष्टपौरुपीपर्यन्तम् अवग्रहस्तिष्ठति यथालन्दकालं यावत्तदुपभोगों नूतनसमागतश्रमणानां कल्पते इति भावः ॥ सू० २७ ॥ पुनर यबमहानुज्ञापनाविपये प्राह-'से वत्युमु' इत्यादि । सूत्रम्-से वत्युसु अन्वावडेसु अन्धोगडेसु अपरपरिग्महिएमु अमरपरिग्गहिएम सच्चेव उग्गहस्स पूज्वाणुणवणा चिहह अहालंदमवि उग्गहों ॥ ५० २८ ॥ छाया-तस्य वास्तुपु. अव्याप्तेषु, अव्याक्तेषु अपरपरिग्रहीतेषु अमरपरिग्रहीतेषु सेव अवप्राइस्य पूर्वानुमापना तिष्ठति यथालन्दमपि भवप्राः || सू. २८॥ चूर्णी-तस्य अन्यमामाद् विस्यागच्छतः वास्तुष्टु वसतिगृहेषु, कीदृशेषु ! तंत्राहअव्याहतेषु शटितपतिततया निवासव्यापारवर्जितेषु, मंत्र्या कृतेषु अविभक्तेषु येषां दायादादिभिर्विभागो न कृतस्तादृशेषु अनेकजनसत्तावत्सु, यद्वा अतीतकाले केनाऽप्यनुज्ञातानि इमानि वास्तूनि इत्यज्ञातेपु, अपरपरिगृहीतेषु-परैरन्यैः परिगृहीतानि स्वपरिग्रहें कृतानि परपरिगृहौतानि, न तथा अंपरपरिगृहीतानि अन्ौरनधिष्टितानि तेषु, अमरपरिगृहीतेषु अमरैः व्यन्तरादिदेवैः परिगृहीतेषु स्वा. धीनीकृतेषु यथा व्यन्तराधिष्ठित भूमिभागे व्यन्तरादिदेवान् अवमान्य निर्मापितत्वेन तें सत्र गृहनिर्मापकं न वासयन्ति विघ्नं कुर्वन्ति न तथा श्रमणानाम् तानि गृहाणि अमरपरिगृहीतानि प्रोन्यन्ते तेषु एतेषु वास्तुपु सैव पूर्वस्थितश्रमणविपयैव अवनहरयः पूर्वानुशापना यथालन्दकालं तिष्ठति, यथालन्दकालं यावद् आगन्तुकश्रमणैः भूयोऽवग्रहो नानुज्ञापनीय इति भावः ।। ९० २८॥ तदेव विशदयति भाग्यकार:--'अच्चावडः' इत्यादि ।
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy