SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ धृहकरुपये तेषां निर्मन्थनिम्रन्थीनां कल्पते द्वितीयमपि वारम् अवग्रहम् अनुज्ञाप्य, प्रथमवारं तावद् अवप्रहो यदा शय्यासंस्तारकं गृहीतं सदा अनुज्ञापितः, तदनन्तरं यदा विप्रणाएं सत् अनुगण्यमाणमपि नोपलव्यं तदा तत्स्वामिने निवेदने कृते सति यद्यसौ गृहस्थः अन्यत् शय्यासंस्तारकं साधये प्रयच्छति तदा, अथवा तदेव यद् विप्रणष्टं शय्यासंस्तारक तत्स्वामिना लब्ध तदा च तद्विषयकमवग्रहं द्वितीयवारमपि अनुज्ञाप्य परिहारं परिभोगलक्षण शय्यासस्तारक गृहीवा परिहर्नु परिभोक्तुं कल्पते इति पूर्वग सम्बन्धः | सती शून्यायां कृतायां शय्यासंस्तारकं नश्यतीति मत्वा श्रमणेन प्रथमत एव वसतिः शून्या न कर्तव्या सदा सावधानेन माव्यम्, वसतिशून्यत्वकरणे श्रमणस्य प्रमादः सिध्यतीत्यतः श्रमणेन नित्यमप्रमतेन भवितव्यमिति भावः ॥ सू० २५ ॥ पूर्व सागारिकसल्क शय्यासंस्तारकं प्रत्यर्य श्रमगविहारः कर्तव्यः इति प्रोक्तम् , तथा यदि चौरः शय्यासंस्तारकं चोरितं तदा द्वितीयवारमवग्रहं गृहीत्वा शय्यासंस्तारकमानेतव्यमिति , प्रोक्तम् , साम्प्रतं पूर्वस्थिताः साघवस्तत् शय्यासंस्तारकं विप्रजहति तदवसरेऽन्ये श्रमणा भाग छन्ति तदा तद्विषयकमयग्रहकाले प्रतिपादयन्नाह-जदिवस' इत्यादि । : सूत्रम्-जदिवसं समणा निर्माया सेज्जासंधारय विप्पजईति तदिवसं अबरे समणा निग्गंया इन्चमागच्छेज्ना सच्चेव उग्गहस्स पुराणुण्णवणा चिट्ठइ अहालंदमवि उन्महे ॥ सू० २६॥ छाया-ये दिवस श्रमणा निर्ग्रन्याः शय्यासंस्तारकं विप्राकृति तं दिवसम् अपरे श्रमणा निर्मन्था हव्यमागन्छेयुः सैव अयप्रहस्थ पूर्वानुमापना तिष्ठति यधालन्दमपि भवप्रहः ॥ सू० २६ ॥ चूर्णी--अदिवस' इति । य दिवसमधिकृत्य यस्मिन् दिवसे इत्यर्थः, श्रमणा निर्ग्रन्था में पूर्व तत्रोपाश्रये स्थितास्ते मासकल्पसमाश्यनन्तरं चातुर्माससमापयनन्सरं पा शय्यासंस्तारकं स्वावग्रहेणानीत पोटफलकादिकं तद् विप्रजाति त्यजन्ति तं दिवसमधिकृत्य तस्मिन् दिवसे इत्यर्थः अपरे भन्ये सार्मिकाः श्रमणा निर्मन्था हव्यं-शीच तत्कालमेव आगच्छेयुः उपाश्रये प्रविशेयुस्तदा सा एव या पूर्वस्थितैः श्रमणैर्गृहीता भवग्रहस्य निवसनाधिकारस्य पूर्वानुज्ञापना पूर्व याऽनुज्ञापना गृहीता भवेत् सा एव तदुपाश्रयविषया तिष्ठति, ये एव पूर्वस्थिताः श्रमणा यस्मात् उपाश्रयाद् निम्रतास्तेषामेवाधिकारे स उपाश्रयस्तिष्ठतीति भावः । कियन्तं काळ यावदवप्रहस्य पूर्वानुज्ञापना लिटति ! तत्राह-यथालन्दमपि अवप्रस्तिष्ठति । अत्र मध्यमोऽष्टपौरुषीप्रमाणो यथालन्दकालो गृह्यते इति अष्टपौरुषीकालं यावत् पूर्वस्थितश्रमणानामेवावप्रहे स उपाश्रयस्तिष्ठति तत एतावत्कालपर्यन्तमपर समागता निम्रन्थाः उपाश्रयस्वामिनोऽवमहमयाचित्वाऽपि तत्र स्थातु पीटफलकादिकमुपभोक्तुं चाईन्ति, तदनन्तरं तैरपरोऽवग्रहो याचितन्यो भवेदिति भावः ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy