________________
७२
rwarmannmaan
पास्कल्पच्चे चूर्णी--'नो कल्पते' इति । निर्घन्धानां वा निम्रन्थीनां वा अन्तरगृहे गृहयोः गृहस्थनिवासस्थानयोः अन्तरम् अन्तरालम्-अन्तरगृहम् गृहद्वयस्यान्तरालम् अन्तरगृहम् तस्मिन् यत्र गृहस्था गृहाद् गृहान्तरप्रवेशार्थ गमनागमनं कुर्वन्ति तत्र, भत्र अन्तरशब्दस्य पूर्वनिपात भार्पत्वात् । यदा 'अतोगिहंसि' इति पाटे गृहस्थगृहस्य अन्तः मध्ये भिक्षार्थ गृहस्थगृहे प्रविष्टानां निर्मन्थनिम्रन्थीनां स्थातुमुपपेष्टुं निदायितुं प्रचलायितुम् इत्यारम्य स्थानं वा स्थातुम् इति पर्यन्तानि स्थानानि तत्र समाचरितुं नो कल्पते, इत्युत्सर्गवचनम् . एषां पदानां व्याख्या पूर्व गता । कारणे कर्तुं कल्पते इति कारणं प्रदश्यते-'अह पुण' इत्यादि, अथ-इति प्रकरणान्तरद्योतकः, अथ पुनः- पूर्वोक्तानि पदानि अन्तरगृहे कतुं साधूनां न क-पते किन्तु यदि एवं जानीयात् एवं संभवेत् तत्र गतो मुनिधितः पूर्वतो व्याधिग्रस्तः तत्कालं वा व्याधितो भवेत् , जराजीणोवा वाक्यमस्त स्थविरोः वा मवेत् , तपस्वी तपःकर्म वहमानो वा भवेत्, दुर्वल: रोगादिना तत्कालमुक्तत्वेन बलहीनो दुर्बलशरीरो वा भवेत् , क्लान्तः- अश्वगमनादिना परिश्रान्तो वा भनेत्, एतादृशः स साधुः कदाचित् मूछेद मूछों प्राप्नुयाद् वा तेन कारणेन प्रपतेत्-भूमो प्रस्वछेत् , एवम् एभिः कारणैः 'से' तस्य व्याधितादिविशेषणविशिष्टस्य पूर्वोक्तानि सर्वाणि स्थानानि यथायोग्यमन्तरगृहे कत्ते कल्पते इति सूत्रार्थः ।। सू. १९ ।।
पूर्व व्याधितादिविशेषणविशिष्टानामन्तरगृहे स्थानादिकरणमनुज्ञातम् , तेन अन्तरगृहे स्थितः सन कश्चित् श्रमणो धर्मकथामपि कर्जुमारभते इति तन्निषेधमाइ-'नो कप्पइ० चउग्गाई वा' इत्यादि ||
सूत्रम्-नो कप्पइ निग्गंधाण वा निप्रयीण वा अंतरगिईसि जाव चउग्गा वा पंचगाई वा आइक्खित्तए वा विभावितप वा किट्टित्तए वा पवेइनए वा, नभत्य एगणाएण वा एगवागरणेण वा एगगाहाए वा एगसिलोएण वा, सेवि य ठिच्चा नो चेव णं अद्विच्चा ।। सू० २० ॥
छाया-नो कल्पते निर्ग्रन्थानां था निर्मन्थीनां वा अन्तरगृहे यायन् चतुर्गा वा पञ्चगाथं वा आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रयेदयितुं वा नान्यत्र एकज्ञा. तेन वा पकव्याकरणेन वा एकगाथया घा एकश्लोकेन वा तपिप स्थित्वा, नो चंव खलु अस्थित्वा ।। सू० २०।।।
चूर्णी- 'नो कप्पड़' इति । निर्ग्रन्धानां निर्घन्धीनां वा अन्तरगृहे द्वयोहयोरन्तराले गृहस्थगृहाभ्यन्तरे वा यावत् चतुर्गाधम् चतसृणां गाथानां समाहारश्चतुर्गाथम्-एकत आरभ्य गाथा चतुष्टयपर्यन्तम्, पश्चगामं वा गाथापञ्चकपर्यन्तं का, आख्यातुं वा मूलरूपेण कथयितुं वा, विभायर्याय तुं वा चिन्तयितुं वा, कीर्तयितुं वा गीतवद उच्चारयितुंवा, प्रवेदयितुं वा विज्ञापयितुं वा नो कल्पते । तत्र स्थितानां श्रमणश्रमणीनां कारणे कियत् कल्पते ! तबाह-यदि तत्र केषाञ्चित् जिनवचने शङ्का जायते, धार्मिको विवादो वा भवेत् , इत्यादिकारणे कोऽपि समागत्य तत्रस्थितं साधु' पृथ्छन्