SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यावरी सू० १९-१० साभावान्तःस्थानादिनिषेधः १ छाया—कार्य च मोक्षो विनयश्च हेतुः । निष्कारणात् नास्तीह कार्यसिद्धिः ॥ तस्माद् उपाय तथा कारणं च,। अबलम्ब्य प्राप्नोति कार्यसिद्धिम् ॥ ९ ॥ अवचरी-'कज च' इति । इह श्रमणधर्मे निम्रन्थस्य कार्य मोक्षः, तस्य हेतुरिति कारण च विनयः, इति तयोः कार्यकारणभावः, तस्मात् निष्कारणात कारणमन्तरेण उपायमन्तरेण च इह लोके कार्यसिद्धिर्नास्ति न भवति, तस्मात् कारणात् उपाय तथा कारणं चावलाच्यैव कार्यसिद्धिः जीवः प्राप्नोति । तथाहि-यस्य कार्यस्य यद उपादानं कारणं तेन विना तत्कार्य न सिध्यति यथा मृत्पिण्डभन्तरेण घट इतिः, उपादानकारणसद्भावेऽपि उपायरूपनिमित्तकारणाभाषे कार्य न सिध्यति यथा मृत्पिण्डसद्भावेऽपि चक्रचीवरोदकादिनिमिचकारणमन्तरेण घटो न निष्पाद्यते अतो यः पुनरुपायरूपनिमित्तकारणवान् प्रयत्नशीलश्च भवति स उपादानकारणम् उपायहपनिमित्तकारणं चावलम्यैव कार्य साधयति, तथैवात्र मोक्षकार्यस्योपादानकारण सर्वविरतिमान् आत्मैव, दिनयादिनिमित्तकारणविना नोपादानकारग मोक्षवेन परिणमति यथा मृत्पिण्डश्चक्रदीवरोदकाबभावे घटत्वेन नो परिणमति, अतो निर्गन्धेन विनमः समासेवनीय इति ॥ ९॥ पूर्व कृतिकर्मविधौ विनयः सविस्तर प्रदर्शितः, विनयवांश्च तादृशमविनयजनकं किमपि कार्य न करोति, गृहान्तराले स्थानादिकारणे च गृहस्थस्यादिनयो भवतीति गृहान्तराले स्थानादिकरणस्य निषेधसूत्रमाह- 'नो कप्पइ० अन्तरागिई सि' इत्यादि । मन्त्रम्-जो कप्पइ निग्गंयाण चा निम्नथीण वा अन्तरागिहंसि चिदिनए वा निसीइत्तए वा तुपट्टित्तए वा निद्दाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं का आहार आइरित्तए वा, उच्चारं वा पासवणं वा खेल, वा सिधाणं वा परिदृवित्तए, सज्झायं वा करित्तए आणं वा शाइत्तए काउस्सग्गं वा करित्तए टाणं वा टाइत्तए । अह पुण एवं जाणेज्जा वाहिए जराजुण्णे. तबस्सी दुबळे किलंने मुच्छिज्ज वा पवडिज्ज वा एवं से फप्पड अन्तरागिहंसि निहित्तए वा जाव ठाणं वा ठाइत्तए ·। मू० १९॥ छाया—नो कल्पते निम्रन्थानांधा निर्ग्रन्थोनां वा अन्तरगृहे स्थातुं वा नियतुं वा त्वग्वर्तयितुं वा निदायितुं वा प्रचलायितुं वा अशनं घा, पानं वा बाधा स्वाधं या आहा. रम् माह म्, उच्चारं घा प्रसवर्ण वा खेल वा शिवाणं वा परिष्ठापयितुम्, स्वाध्याय घा कर्तुम् , ज्यान वा धातुम्, कायोत्सर्ग वा कर्तुम् , स्थानं घा स्थातुम् । अथ पुनरेवं जानीयात् व्याधितः जराजीर्णः तपस्वी दुर्बलः क्लान्तः मूर्च्छत् वा प्रपतेत् वा पर्व तस्य कल्पते अन्तरगृहे स्थातुं वा यावत् स्थानं वा स्थातुम् ।। सू० १९ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy