________________
बृहत्कल्पसूत्रे छाया--कल्पते निर्गन्थानां या निर्ग्रन्थोनां वा यथारानिकतया कृतिकर्म कर्तुम् ॥१८॥
चूर्णी-'कप्पइ' इति । निम्रन्थानां निम्रन्थोनां यथारानिकतया पर्यायज्येष्ठत्वक्रमेण कृतिकर्म-शान माषया शिष्यादिकृतो वन्दनाभ्युत्थानादिसत्कारः, तत् कर्तुं कापते, नान्यथा ज्येष्ठत्वकनिष्ठत्वमर्यादामतिक्रम्येति भावः । कृतिकर्म द्विविधं वन्दनाभ्युत्थानभेदात् , तत्र वन्दनम् भाचार्यादियधारानिकानां प्रातः सायं तेषां दृष्टिपाते कार्यपृच्छादिसमये च यथाविधि वन्दन कर्तव्यम् , वन्दनं कृत्वैव कार्यादिपृच्छा कर्तव्या, एवं सूत्राथैतदुभयग्रहणेऽपि वन्दनं कर्तव्यमेवेति । अभ्युत्थानम्-गुरोः समीपागमने, चंक्रमणे, उन्चारादिभूमौ गमनकाले, आसनादुत्थानकाले, इत्याद्यवसरे शिष्येणान्युत्थानं कर्तव्यम्, अन्यथा गुरोराशातना, आज्ञाभङ्गादिदोषाश्च समापद्यन्ते, धर्मस्य विनयमूलत्वेन भगवता प्रतिपादितत्त्वात् , उक्तञ्च
"धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु सोग्गईए । सा सोग्गई जन्य अबाहया उ, तन्हा निसेन्वो विणओ तया" ॥ १ ॥
मयं भावः-धर्मस्य जिनोक्तस्य श्रुतचारित्रलक्षणस्य मूलं तीर्थकरगणधरादयो विनयं वदन्ति 'धर्मस्य मूलं विनयः' इति, 'मूलं नास्ति कुतः शाखा' इति वचनाद् विनयमन्तरण तपःसंयमाराधनाऽपि कथं भवेत् । घों हि सुगत्या मूलम् , सा सुगतिः कथ्यते यत्र अबाधता क्षुत्पिपासारोगशोमादिशारीरमानसानां वाघानामभावः सिद्धिरित्यर्थः स्यात् तस्मात् कारणात् मुनिना प्रथम विनयो निसेव्यः विनयः समादरणीयः । स च गुरूणां वन्दनाभ्युत्थानसेवाशुश्रूषादिना जायते ।
अनाय भावः-इह निर्ग्रन्थस्य कार्य तावदव्याबाधसुखलक्षणो मोक्षः, तस्य च कारणं सर्वज्ञभाषितः श्रुतचारित्रलक्षणो धर्मः, स च गुरोरभ्युत्थानवन्दनादिरूपविनयलक्षणमुपायमन्तरेण साध. यितुं न शक्यते, धर्मस्य विनयमूलत्वात् , अतो विनयेन धर्माराधनं, धर्माराधनेन मोक्ष इति पर म्परया विनयो मोक्षकारणमेवेति मत्वा तदर्थ विनय आसेचितव्य इति ॥ सू० १८॥
मत्र विनयमोक्षयोः कार्यकारणभावप्रदर्शनपूर्वकमाइ भाष्यकार:--'कज्ज' इत्यादि । भाष्यम् कज्ज च मोक्खो, विणओ य हेऊ, निक्कारणा नस्थिह कज्जसिद्धी । तम्हा उवायं तह कारणं च. ओलंबिडं पावइ कज्जसिदि ॥ ९॥