________________
चूर्णिभाष्यावचूरी उ. ३ २०१८
যখাবলিকলিয়ষণি: ক ची--'कप्पई' इति । निम्रन्थानां निग्रन्थीनां वा पूर्वसूत्रोक्तवस्त्रवदेव शग्यासस्तारकान् . तत्र शय्या वसतिः, तस्या य: संस्तारकः शयनयोग्यावकाशलक्षणं स्थानं स शण्यासंस्तारकः. तान् यथारानिकतया पर्याय ज्येष्ठतया प्रतिमहीतुं समादातुं कल्पते । तस्य चोपाश्रयप्रामः श्रमणेः पूर्वाह्ववेलायामेव ग्रहण कर्तव्यम् ततो यथारास्निकं विभक्तव्यम् , यद्वा शया-शरीरप्रमाणा, संस्तारकः-साद्विहस्तः, तयोः समाहारे शय्यासंस्तारकम् , तानि, पीठ फलकादीनि वा यथारानिकतया पर्यायज्येष्ठत्वक्रमेण आचार्यस्थविरबालालानादीनां यथायोग्यक्रमेण च ग्रहीतुं कल्पते ।। सू० १७ ॥
अत्राह गाथास्य भाष्यकार:–'सयणद्वाणं' इत्यादि । भाष्यम्--सयणद्वाणं तिविहं, निन्यायसवायमिस्स मेयाओ । समविसममिस्स मेया, पुणोवि तिविई सयणठाणं ।। ७ ॥ एमु य जं मुठाणे, रायणियाणं गिलाणमाईणं ।। आमंतिय तं देज्जा, एसा जिणसासणे मेरा ।।८।। छाया- शयनस्थानं त्रिविध-निर्वात-सवात-मिश्रमेदतः । सम-विषम-मिथभेदात् । पुनरपि प्रिविधं शयनस्थानम् ॥७॥ एषु च यत् सुखस्थाने, रात्निकानां ग्लानादीनाम् ।। आमन्त्र्य तद् दद्यात् , पपा जिनशासने मर्यादा ॥ ८॥
अवचूरी-'सयण हाणं' इत्यादि । सूत्रे शय्यासंस्तारकशन्देन वसतिगतशयनयोम्यं स्थानं गृहीतम् । तच्च शयनस्थानं–निर्वातं, सवातं, निर्वातसवातं चंति भेदात् त्रिविधं भवति, पुनरपि सम, विषम, समविषममिति भेदात् त्रिविधम् । तत्र शयनस्थानमाचार्येण यद यस्म साधवे दीयते इत्तेन मायामविममुक्तेन ऋजुभावेन ग्रहोतन्यम् , किन्तु एषु पूर्वोक्तेषु पद स्थानेषु यत् सुखस्थानं भवेत् तत्-आचार्य-स्थविर-लाना दीनाम् आमन्त्र्य 'यदि भवतां न समीचीन शयनस्थानं तर्हि ममेदं गृहाण' इत्यादिसंमानवाक्येन उपनिमन्त्र्य तत् स्वस्य समी. चीनं शयनस्थानं यत्तेषां रोचते तद् दद्यात् यतो जिनशासने एषा श्रमणानां मर्यादा वर्तते, भगवता समुपदिष्टत्वात् । अथवा शय्या शरीरप्रमाणा, संस्तारकः सार्द्धद्विहस्तप्रमाणः । अवापि कर्कशमृदुकठोर लस्यादिभेदमधिकृत्य पूर्वोक्तो विधियोध्यः ॥ ७-८ ॥
पूर्व श यासंस्तारकस्य यथारानिकतया ग्रहणविषयकं सूत्र प्रोसम् , साम्प्रतं शायासंस्तारकपणानन्तर सन्ध्यासमये पूर्णायां पौरुष्यां गुरुप्रदत्तशण्यासंस्तारं प्रस्तीर्य तदुपरि समासदस्य एवं प्रातरस्थितस्य च कृतिकर्म करणीयं भवेत् , तदपि यथारानिकतया कर्तव्यमिति सद्विधिप्रतिपादक सूत्रमाह--'कप्पइ० किइकम्म' इत्यादि ।
मुत्रम् – कप्पइ निग्गंधाण चा निग्गंथोण वा अहारायणियाए किइकर्म फरिसए ॥ सू० १८॥