SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ गृहत्कल्पसूत्रे छाया - नो कल्पते निर्बंन्धानां या निर्मन्थीनां वा प्रथमसमवसरणोदेशप्राप्तानि चेलानि प्रतिग्रहीतुम् | कल्पते निर्मन्थानां वा निर्ब्रन्थीनां वा द्वितीय समवसरणोद्देशप्राप्तानि चेलानि प्रतिग्रहीतुम् ॥ सू०१५ ॥ 1 नृर्णी - 'नोकप्पड़' इति । निर्ग्रन्थानां वा निर्ग्रन्यीनां वा प्रथमसमवसरणोद्देशप्राप्तानि प्रथमे समवसरणे, एकस्मिन् वर्षे है समवसरणे भवतः - एकं वर्षाकालिकं द्वितीयम् ऋतुबद्धकालिकम् तयोर्मध्ये प्रथमे वर्षाकालिरूपे समवसरणे वर्षाकाले इत्यर्थः उदेश: क्षेत्रकालविभागरूपः तं प्राप्तानि प्रथम समवसरणोदे शमाप्तानि वर्षाकालमध्यवर्तिक्षेत्र कालोपस्थितानि चेलानि - वस्त्राणि प्रतिग्रहीतुं नो कल्पते । तर्हि कीहक्षेत्रकालप्राप्तानि वस्त्राणि प्रतिग्रहीतव्यानि तत्राह - 'कप्पड़' इत्यादि निर्मन्थानां निर्ग्रन्थीनां च द्वितीय समवसरण देशप्राप्तानि - तत्र द्वितीय समवसरणे ऋतुबद्धकाले हेमन्तग्रीष्मकालसम्बन्धिषु अष्टसु मासेषु प्रदेश: क्षेत्रकालविभागरूपस्तं प्राप्तानि - हेमन्तग्रीष्मकालमध्यवर्तिक्षेत्रकालोपरिथतानि चेलानि वस्त्राणि उपधिप्रायोग्यानि पात्राणि च प्रतिप्रहीतुं कल्पते । समाप्ते चातुर्मासे कार्तिक पूर्णिमासमारम्य यावत् अपादपूर्णिमा नावाति तावत्कालयर्यन्तं निर्मन्थनिर्मन्थीनां वस्त्राणि पात्राणि च एषणाप्राप्तानि क्षेत्रकालतो निर्दोषाणि कल्पते इति भावः । सू० १५ || पूर्व द्वितीय समवसरणे निर्मन्थनिर्मन्थीनां वस्त्रग्रहणमनुज्ञातम् साम्प्रतं गृहीतानां तेषां वस्त्राणां यथाशनिक विभागविधि प्रतिपादयति- 'कप्पइ० अहारायणियाए' इत्यादि । ↑ सूत्रम् -- कप्पड़ निम्थान वा निधीण वा अहारायणियाए चेलाई पडिग्गाहित्तए || सू० १६ ।। छाया— कल्पते निर्प्रस्थानां वा निर्ग्रन्थीनां वा यथारा निकतया चेलानि प्रतिग्रही तुम् ।। सू० १६ ॥ I चूर्णी - 'कप्पड़' इति । निर्ग्रन्थानां निर्मन्थीनां वा वेलानि वस्त्राणि यथारात्मिकतया यथारत्नाधिकतया, रत्नं चारित्रपर्यायः तद यथा यथा श्रमणश्रमणीनामधिककालिकः पर्यायो मत् तथा तथा पर्याय ज्येष्ठ क्रमेण मनसि निधाय प्रतिग्रहीतुं स्वीकर्तुं कल्पते, एवमेव विभागेन दातु कल्पते, अन्यथा दाने अविनया शातनाऽधिकरणादिदोषसंभवात् ॥ सू० १६ ॥ पूर्वसूत्रे श्रमणश्रमणीनां यथारानिककमेण वस्त्रग्रहणं प्रतिपादितम् साम्प्रतं शम्यासंस्तारक प्रह्णविधिमाह - 'कप्पड़' इत्यादि । सूत्रम् -- कप्पड़ निर्मााण वा निग्र्गयोण वा अहारायणियार सेज्जासंपारए पडिग्माहित || सू० १७ ॥ छाया – कल्पते मिर्थन्धानां वा निर्मन्थीनां वा यथारात्निकतया शय्यासंस्तारकान् प्रतिग्रहीतुम् ॥ सू० १७ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy