SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ गिंभाष्याषचूरी उ०-३ सू० १२-१३ प्रथमपश्चादुपस्थितयोर्वस्त्रादिग्रहणविधिः ५ वको वायं चान्य पुरतः कृत्वा विहरति कल्पते तस्यास्तम्निययाचंल प्रतिमहीतुम् ।। २०१२॥ चूर्णी-'निमाथीए य' : निर्मन्यास, २ . बाविक गृहस्थगृह पिण्डपातप्रतिज्ञया-आहारग्रहणेच्छया अनुप्रविष्टाया यदि चेलार्थः चेलम्य अर्थः प्रयोजनं मापवस्त्ररवेन वस्त्रग्रहणप्रयोजनं समुत्पधेत तदा तस्या निम्रन्ध्या आत्मनः निश्रया आत्मीयत्वेन 'इदं वस्त्रं मम भविष्यतीत्येवंरूपया निश्रया चेलं वस्त्र प्रतिग्रहीतुं गृहस्थादादातुं नो कल्पते | तर्हि कथं कल्पते ? इति तद्विषि प्रदर्शयति-तस्याः प्रतिनीनिश्श्रया-'इदं वस्त्रं गृहामि मम प्रवचिनीनिश्रया, सा यस्याः कस्या मम अन्यस्या वा दास्यति सा ग्रहीष्यति' इत्येवंरूपया गृहस्य प्रत्येवं वाचा प्रकटय्येत्यर्थः चेलं वस्त्रं प्रतिग्रहीत्तुं कल्पते । यदि मो चाय प्रवर्तिनी सामाना सन्निहिता तत्र प्रामे उपाश्रये वा न स्यात् नो मवेत्तदा तत्र प्रामे यः सः यः कोऽपि सामानः संनिहितः स्यात् , का ? इत्याह-आचार्यों बा, आचार्यः यः पञ्चाचारान् स्वयं पालति परान् पालयति सः, तथा योऽर्थ वाचयति, गच्छत्य मेवोभूतः शरीरावष्टसंपदायुक्तो भवेत्स माचार्यः संनिहितो भवेत् , तदभावे उपाध्यायः - उप- समापम् एत्य अधोयते प्रवचन शिष्यैः यस्मात् स वा भवेत् , तदभावे प्रवर्तकः-प्रवर्तयति आचार्योपदिधेपु कार्य तपःसंयमयोगयावृत्यसेवाशुश्रूषाऽध्ययनाध्यापनसूत्रार्थादिषु यथायोग्य बलाबलं विचार्य नियोजयति यः स प्रवर्तको भवेत् , तदभावे स्थविरो वा-संयमयोगेषु सीदतः साधून ऐहिकामुष्मिकापायप्रदर्शनपूर्वकं ज्ञानादिपु स्थिरीकरोति यः स स्थविशे या भवेत् , तदभाचे गणी या-गणः कतिपयसाधुसमुदायः स्वस्वामिसम्बन्धेन यस्यास्ति सः, यः साधुसमुदायेन सह विचरणशीलः स गणी वा भवेत् . तदभावे गणधरो वा यः गणचिन्ताकारको गणस्य योगक्षेम विधायकः, तत्र प्राप्तस्य प्राप्तियोगः, प्राप्तस्य रक्षणं क्षेमस्तद्विधायको गणधरो वा भवेत् , तदभावे गणावच्छेदको वा गणस्य साधुसमुदायस्यावच्छेदं विभागं करोति यः गणव्यवस्थाकारकः स गणावच्छेदको वा भवेत् , तदमावे ये चान्यं कमपि गीतार्थ पुरतः कृत्वा साध्वी तदाज्ञया विहरति सो वा तत्र संनिहितो भवेत् , एतेषु आचार्यादिपु यः कोऽपि तदा संनिहितो भवेत् तन्निश्रया तन्निश्रामधिकृत्य तम्या निन्थ्याः चेलंवस्त्रं प्रतिग्रहीतुं कल्पत्ते, भिक्षार्थ गृहस्थगृहे गतया निन्थ्या वस्नावश्यकतायां स्वनिश्रया कदापि वस्त्रं न ग्रहीतव्यमिति भावः ॥ मू० १२ ।।। पूर्व सूत्रे निर्घन्ध्या वस्त्रग्रहणविधिः प्रोक्तः, साम्प्रतं प्रथमतया प्रनजितुकामस्य पूर्वोपस्थितस्य च वस्त्रग्रहणविधिमाइ-'निग्गंथस्स' इत्यादि । सूत्रम्-निगाथस्स णं तप्पटमपाए संपन्वयमाणस्य कप्पइ रयहरणगौच्छगपडिग्महमायाए तिहिं फसिणेहि पत्थेहि आयाए संपन्वइत्तए, से य पुब्बोवहिए सिया एवं से
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy