SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ पृहत्कल्पसूत्रे वस्तुनो निश्चयकरणम् ९, ततश्चान्ते शनैः शनैरवकरणपूर्वकं तया सह संपर्क साधनम् इति दशमं स्थानम् १०, एतानि दशापि स्थानानि निम्रन्थैः परिहरणीयानि नानाविधदोषसंघातसंभवादिति ॥ १ ॥ कारणे गमनेऽपि कार्य कृत्वा शीनं पुनः प्रत्यावर्त्तत, अधिकस्थितौ अधिकरणसंभवात् ॥ २॥ कारणवशादपि साध्वीनामुपाश्रये विधिना गन्तव्यम् न त्यविधिना, विधिश्च यथा-गणचिन्ताकारको गणघरो यदि वस्त्रादिदानादिनिमित्तं ग्लानायाः शाताप्रच्छनार्थ वा गच्छेत्तदा त्रिपु स्थानेषु नैपेषिकी कुर्यात्-अनद्वारे १, मध्यभागे २, आसन्नभागे च ३ । नैपेधिकीत्रयं कृत्वा तत्र प्रविशेत् तेन उपाश्रयस्थिताः साध्व्यः वस्त्रावरणादिना सावधाना भवेयुः । अत्र कारणं विधि चाश्रित्य चत्वारो भङ्गा भवन्ति,तथाहि-अकारणे अविधिना १, अकारणे विधिना २, कारणे अविधिना ३, कारणे विधिना ४ । अत्र चतुर्थों भङ्गः शुद्धः समाचरणीयो लभ्यते । पुनरपि सहिष्ण्वसहिष्णुश्रमणश्रमणीशब्दानाश्रित्य चत्वारो भङ्गा भवन्ति सथाहि-श्रमणी असहिष्णुः श्रमणोऽपि असहिष्णुः १, श्रमणी-असाइणुःश्रमणः सहिष्णुः २, श्रमणी सहिष्णुः श्रमण असहिष्णुः ३, श्रमणी सहिष्णुः श्रमणोऽपि सहिष्णुः ४ । एषपि चतुर्थो मतः कारणे ग्राह्यः ।। निम्रन्थस्य साध्वीनामुपाश्रये गमनस्यान्यान्यपि कारणानि भवन्ति,तेपूपस्थितेषु निर्मन्थस्य तत्र पूर्वोक्तशुद्धभङ्गानुसारेण गमनं कल्पते, तानि यथा-उपाश्रयस्य संस्तारकस्योपधेर्वा वितरणार्थम् १, संयमे सीदन्तोनां परिपइनस्ताना स्थिरीकरणार्थम् २, प्रतिश्रये अस्वाध्यायिक सति श्रुतस्योदेशमनुज्ञा या विधातुम् ३, तासां परस्परसंजाताधिकरणस्य व्युपशमनार्थम् ४, प्रवर्त्तिन्यां कालधर्मप्राप्तायां सत्यां गणचिन्तार्थम् शेषसावीना संसारस्वरूपप्रदर्शनपूर्वकं धर्मोपदेशेनाश्वासनार्थ वा ५, ग्लानाया औषधभैषज्यादिप्रदानाथम् ६, उपाश्रयेऽग्निना दग्धे जलरेण साविते वा तळ्यवरथाकरणार्थम् ७, सान्चीनां देवमानुपतैरेश्चोपसर्गशमनार्थम् ८, भक्तप्रत्याख्यानायनशनप्रतिपन्नायाः परिकर्मजिज्ञासार्थ चेति ९ । एतादृशेध्वन्येष्वपि कारणेपूत्पन्नेषु श्रमणीनामुपाश्रये श्रमणाना गन्तुं कल्पते, तत्र भगवदाज्ञातिक्रमणदोघामावात् ।। ३ ॥ पूर्व निर्ग्रन्थीनामुपाश्रये निम्रन्थानां स्थानादिकरणं निषिद्धम् , साम्प्रतं तद्वैयरीत्येन निर्मन्यानो निर्ग-थोपाश्रये तान्येव स्थानादीनि निपेयितुमाह-'नो कप्पड़ निग्गंधीणं' इत्यादि । सूत्रम्-नो कप्पइ निम्गंधीण निग्गंथउवस्सयंसि चिद्वित्तएवा जाव काउन्समां करेत्तए ठाणं वा ठाइत्तए ॥ मू०२॥ छाया-नो कल्पते निर्ग्रन्थीनां निर्ग्रन्थोपाश्रये स्थातुं घा यावत् कार्योत्सर्ग कर्त्तम् स्थानं घा स्थातुम् ॥ ० २ ॥ . चूर्णी-'नो कप्पई' इति । यथा पूर्व निम्रन्थानां निर्मन्थ्युपाश्रयेऽवस्थानादि निषिद्धं तथैवात्र निर्ग्रन्थीनां निम्रन्योपाश्रयेऽवस्थानादि कतुं न कल्पते' इति प्रतिपादितम् । यदि ग्लानसाघुशरीरसमाधिजिज्ञासाथ गणचिन्ताकारकगणघरादुपयादिमार्गणार्थ वा निर्ग्रन्थी साधूपाश्रये गच्छे. तदा कारणविधिभङ्गप्रदर्शितशुद्धभङ्गमपेक्ष्य नेषेधिकीत्रयपूर्वकं गच्छेत् । एवं ठासहिष्णु-सहिष्णु- भरु
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy