SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ बुणि-माया-वचूरी उ० ३ सू० १-२ साधु-सायीनां परस्परोपाभयगमननिषेधः ५७ नामुपाश्रये निम्रन्थानां न कल्पते स्थातुं वा ऊस्थितिरूपेण, निषतु वा उपवेष्टुं वा पर्यशासनादिना, स्वावर्तयितुं वा पार्श्व परिवर्तनं कर्तुम्, निदातुं वा निद्रा प्रहीतुम्, प्रचलायितुं वा उपविष्टः स्थितो वा निद्रां ग्रहीतुम् , अशनं वा४ अशनादि चतुर्विधमाहारमाहतु वा, उच्चारं वा संज्ञारूपम्, प्रसवर्ण वा कायिकोरूपम, खेलं वा श्लेष्माणम्, सिचाणं वा नासिकामलम्, एतानि शरीरन्द्रियमलानि तत्र परिष्टापयितुं न कल्पते । तथा स्वाध्यायं वा सूत्रार्थरूपं कत्तम्, ध्यानं वा अन्तर्मुइतकालप्रमाणात्मचिन्तनरूपं ग्यातुं-कर्तुम् , कार्योत्सर्ग वा कायिकत्र्यापारनिवृत्तिपूर्वकं लोगस्सगुणनरूपंकतम् स्थानं वा कवीभूय कायिकचेप्टावर्जितं लोगस्सगुणनरूपं द्वादशभिक्षुप्रतिमाम र्यादारूप स्थातुम् माचरितम् निम्रन्थीनामुपाये निम्रन्थानामेतानि कार्याणि कर्तुम् नोक्रपते, एवं करणे निग्रन्थीभिरपमानितत्वादिसंभवात् , अधिकपरिचये स्वपग्तदुभयानां ब्रह्मवते शङ्कासद्धावान्चेति । यस्मादेवं तस्मात् निम्रन्थीनामुपाश्रये निर्मन्थस्याकारणे गमनं निषिद्मेव, कारणेऽपि गमने द्वितीयेन साधुना सहितः सन् गछेत् कारणं संपाच चाल्पकालेनैव ततोऽपसरेत् एकाकी न गच्छेदिति भावः ।। सू. १ ॥ अत्राह भाष्यकार:--'निग्गंधीवसहीए' इत्यादि। भाष्पम् --निग्गंधीवसहीए, निम्गंधाणं न कप्पए ठाउं । चइयव्या दस ठाणा, वयभंगुप्पायगा जम्हा ॥३॥ कारणभी जइ गच्छइ, किच्चा कज्ज पुणी निवतेज्जा 1 अहियं तत्थ न चिछे, अडिगरणाईण संभवओ ॥४॥ कारणजाए गच्छइ, विहिणा एत्यं भवे चउन्भंगी ।। असहिष्णु सहिण्डू इय, एत्थं पुण होइ चउभंगी ॥५॥ छाया-निग्रंथीवसतौ निन्यानां न कल्पते स्थातुम् । त्यक्तव्यानि दश स्थानानि, प्रतमलोत्पादकानि यस्मात् ॥३॥ कारणतो यदि गच्छति, कन्या कार्य पुनर्निवत्तेत | मधिकं तत्र न निठस्, अधिकरणादीनां संभषतः ॥ ४॥ कारण माने गच्छति विधिना, अत्र भवेत् चतुर्भङ्गी । असहिष्णुः सहिष्णुरिति, अत्र पुनर्भवति चतुर्भही ॥ ५ ॥ अवचूरी—'निगांधीवसहीए' इति व्याख्या सुगमा । अयं भावः-एतानि वस्यमाणानि दश स्थानानि साधूनां सर्वथा त्याज्यानि, तानि यथा-प्रथमं निम्रन्थीनामुपाश्रये निष्कारणं गमनम् १, तत्र गदा दूरतस्तासामवलोकनम् २, कतमाः कतमाः पुनरेता इति जिज्ञासाकरणम् ३, 'अमुको अमुकी वा एपा' इत्येवं निश्चयकरणम् ४, तामिः सह वार्तालापकरणम् ५, तासामङ्गोपानादिषु दृष्टिपातकरणम् ६, तास काञ्चिदेकां दृष्ट्य एतादृशी ममाप्यासीत्' इति मूतपूर्ववत्रीसाभ्यचिन्तनम् ७, सामु कयाचित् सह गुप्ताभिभाषणम् ८, तन्निमित्तं तस्या अमे कस्यापि
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy