SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरो उ० १ सू० ३१-४० विरुद्धराज्यमननिषेधः २९ पूर्वसूत्रे ऋतुबद्धकाले निर्धन्यानां विहरणं बाल्पते इति प्रोक्तम्, साम्प्रतम् वातुबद्रकाले विद्वत्य निर्ग्रन्था ग्रामनगरादौ मासकल्पविधिना तिष्ठन्ति, यत्र निर्धन्यास्तिष्र्टान्त तेन स्थाननाऽपायवर्जितेन भवितव्यम् , स चापायो वैराज्यविरुद्धराज्यादिरूपो भवतीति तादृशे स्थाने निम्रन्थेप्रेमनागमनं न कर्त्तव्यमिति तद्विधि प्रदर्शयति –'नो कप्पइ. वेरज्जा ' इत्यादि। सूत्रम्--नो कप्पइ निमांथाण वा निग्गंधीण वा वेरन्जविरुद्धरम्नसि सज्ज गमणं सज्ज आगमणं सज्ज गमणागमणं करित्तए । जो खलु निगंयो वा निगयी वा वेरज्जविरुद्धरजंसि सज्ज गमगं सने आगमग सम्जे गमणागमणं करइ करेंतं वा साइज्जह से दुहमोवि वारकममाण आवनइ बाउमासिय परिहारहाणं अणुम्याइयं ।। छाया—नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां पा वैराज्यघिद्धराज्ये सयो गमर्म सघ बागमनं सधो गमनागमन कर्तुम् । यः खलु निम्रन्थो वा निन्धी चा राज्यविरुद्धराज्ये सद्यो गमनं सद्य आगमनं सद्यो गमनागमनं करोति कुर्वन्तं वा स्वदते स द्विधातोऽपि व्यतिक्रामन् मापद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥३८॥ चूर्णी-'नो कप्पई' इति । नो कल्पते न युज्यते निम्रन्थानां वा निर्ग्रन्थीनां वा ऋतुबद्धकाले विहरतां वैराज्यविरुद्धराज्ये, वि-विरुद्धं राज्यं विराज्यं तदेव वैराज्यं वर्तमानकालिकवरयुक्त राज्यम् , अथवा विगतराजकं यत्र राजा मृतो भवेत् तद् वैराज्यम् , तथा विरुद्धराज्यं यत्र द्वयोः राज्ञोः स्वस्वराज्ये परस्परम् एकराग्यजनानामन्यराज्य गमनागमनं विरुद्ध निमिदं भवेत्तर विरुद्धराज्यम्, राज्यं च विरुद्धराम्यं चेति समाहारे वैराज्यविरुद्धराज्यम्. तस्मिन् तादृशे देशे प्रदेशे वा सधः-तत्कालम् विरोधकाल एव गमनम् यत्र स्थितस्तत्रतो निस्सरणम्, तत्, भागमनम्-अन्यप्रदेशात् सद्यः-विरोधसमकाले तत्र प्रवेशः, तत्, तथा सबःविरोधसमकाल एव गमनागमन-वारं वारं निस्सरणं प्रवेशं वा कत्तुं न कल्पते हात पूर्वेण सम्बन्धः । यदि यः बबलु साधुः पूर्वोक्त वैराग्यविरुद्धराज्ये गमनमागमने गमनागमनं च करोति स्वयं, कारयति वाऽन्यं, तथा कुर्वन्तं वाऽन्यं स्वदते-अनुमोदते तदा स तत्र गमनस्यागमनस्य गमनागमनस्य च कर्ता कारयिता अनुमोदिता च विघातोऽपि उभयतोऽपि द्वयानामपि तीर्थकृतां राज्ञां च सम्बन्धिनीम् आज्ञा व्यतिक्रामन् उल्लयन् तीर्थकग्गजाज्ञाया विराधना कुर्वन् आपद्यते प्राप्नोति चातुर्मासिक चतुर्माससम्बन्धि परिहारस्थानम् अनुदातिक चतुर्गमक प्रायश्चित्तम् । यस्मात्कारणात् वैरायविरुद्धराज्ये गमनागमनकरणे साधुः प्रायश्चितभागी भवति तस्मात् कारणात् वैराज्यविरुद्धराज्ये न स्वयं गमनागमन कुर्यान् न कारयेत् न वा कुर्वन्त. मन्यमनुमोदेन, तत्र प्रवचनोड्डाहसंयमात्मबिराधनाद्यनेकदोपापनिसद्भावादिति ।। सू० ३८॥ पूर्वसूत्रे वैराज्यविरुद्धराज्ये साधूना गमनागमननिषेधः प्रतिपादितः, साम्प्रतं वैराज्यविरुद्वराज्ये कदाचिद् गतो भवेत्तत्र लुण्टकर्वस्त्राणि लुण्टिनानि भवेयुस्ततोऽन्यमामादौ साधुर्गच्छेत्
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy