SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २८ बृहत्कल्पसः कश्चित् प्रवचनोडाभीरुधर्मश्रद्धालुः साधुस्तदधिकरणमुपशमयितुं तत्रागच्छति, एवम् तत् तदीयगमनागमनं शुद्धमपि वासावासे वर्षावास वर्षाकाले 'न करणिज्ज' न करणीयम् यतो वर्षाकाठे साधूनां गमनागमनं न कल्पते, इत्येष एवं पूर्वसूत्रेण सहाऽस्य सूत्रस्य सम्बन्धः ॥२८॥ अनेन सम्बन्धेनायात वर्षावासे गमनागमननिषेधपरकमिदं सूत्रमाह-'नो कप्पइ' इत्यादि । सूत्रम्--नो कप्पइ निग्गंयाण वा निग्गथीण वा वासावा सेसु चरित्तए ॥ ३६॥ छाया—नो कल्पते निर्ग्रन्थानां या निर्ग्रन्थोनां या वर्षावासेषु चरितुम् ॥ ०३६॥ चूर्णी-'नो कप्पइ' इति । निम्रन्थानां निग्रन्थीनां च वर्षावासेपु वर्षायां वर्षाकाले वासः वर्षावासः, तस्य चातुर्मासरूपस्वाद बहुल्लविवक्षायां तेषु वर्षावासेषु चतुर्मासरूपेषु वर्षाकालसम्बन्धिषु चतुएं मासेषु चरितुं विचरितुम् एकस्माद् प्रामादन्यस्मिन् प्रामे गन्तुं न कल्पते । वर्षासु विहरतः षद्कायविराधनेन संयमात्मविराधना भवति । तत्र पदकायविराधना यथा-वर्षाकाले पन्धानः ममदिता भवन्ति तेन पृथिवीकायविरा घना १, जलक्लिन्नमार्गे गमनेऽप्कायरिराधना सुस्पष्टैव २, उपधेर्जलक्लिन्नत्वेन तापनार्थ मतिर्मवेत्तेन तापनबुद्धयाऽग्निकायविराधनादोपः समापयेत ३, जलाईपायोस्तीमगत्या वायुकायविराधना ४, वर्षाकाळे भूमो दूर्वादिवनस्पतिकायः समुद्भवति, जलसद्भावात् पनकस मूर्छनमपि भवति, इत्यादिना वनस्पतिकाविराधना '५, वर्षाकाले इन्द्रगोपशिशुनागाचनेकासा भूमौ विचरन्ति तेन त्रसकायविराधना भवेत् ६ । एवं संयमविराधना भवति । आत्मविराधना तु अनेकप्रकारा भवति यथा-कमपिच्छिले मार्गे पादस्खलनं, तेन विषमे भूप्रदेशे निपतन भवेत् , जलेऽदृश्यमानकीलकण्टकादि वा चरणयोविच भवेत् , अकस्मात् गिरिनधादिजलपूरेणान्यत्र नयनं भवेत् , इत्याधनेकप्रकाराऽऽमविराधना भवेत् । तीर्थकराज्ञाविराधना तु स्पटव शास्त्रे, चातुर्मास. विहरणस्य निषिद्धत्वात् । तस्मात् निर्भनिन्थीभिश्च वर्षाकाले विहरण न विधेयम् , अपवादे राज्योपदवे ग्रामदाहे दुर्भिक्षे जलप्लाविते ग्रामे, इत्यादिसंयमयात्रानिवहिबाधकेषु फारणेपु समुपस्थितेषु वर्षा काळेऽपि तत्रतो निर्गमनमावश्यकं भवेदिति ॥ मू०३६॥ पूर्व-वर्षावासे -चातुर्मासे श्रमणानां विहरणं न कल्पते इति प्रतिपादितम्, अथ कस्मिन् काले श्रमणानां विहरणं कल्पते ! इति प्रश्ने विहारकल्पकालं प्रदर्शयन्नाह -- 'कप्पई' इत्यादि । सूत्रम्- कापड निग्गंधाणं वा निम्गंथीणं वा हेमंतगिम्हामु चरित्तए॥ सू०३७॥ छाया-कल्पते निर्ग्रन्थानां वा निन्थीनां धा हेमन्त ग्रीष्मेपु चरितुम् ॥३७॥ घूर्णी--कप्पई' इति । निर्घन्धानां वा निग्रन्थीनां वा 'हेमंनगिम्हास' हेमन्तग्रीमेषु हेमन्तप्रीष्मसम्बन्धिषु अटसु मासेषु ऋतुबदे काले इत्यर्थः चरितुं विचरितुं कल्पते, ऋतुबद्धकाळे शुकभूम्यादिकारणेन संयमात्मविराधनाया असंभवात् ।। सू० ३७
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy