SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ mew निवासः कल्पते, यतः पूर्व साम्बीना सागारिकनित्रया वस्तुं कल्पते इति प्रतिपादितम् , तासां शीलरत्नरक्षामा आवश्यकत्वात् , अत्र सागारिकाः मातृष्वस-भगिनी-भ्रातृजाया-मातृ-पित-बातपितामही-मातामही-प्रभृतिसम्बन्धिजनरूपा विज्ञेयाः, तत्प्रतिबद्ध उपाश्रये साचीभिर्वस्तध्यं नवन्यस्मिन् पतिपल्यादिप्रतिबद्धे दुष्टजनप्रतिबद्ध वा, यतस्तत्र वसन्तीना शोटनरक्षा मुलभा भवति, सम्बन्धिजनाः समर्थाः सन्त उपसर्गकारकान् दुष्टजनान् निवारयन्ति अतो निम्रन्थीनां निदोभे प्रतिबद्रीपाश्रये निवसनमावश्यकमिति ज्ञात्वैव भगवता निम्रन्थीभ्यः प्रतिबद्धोपाश्रये वासो विहित इति । भावतः प्रस्रवण- स्थान -रूप-शब्द - मेदाच्चतुर्विधे प्रतिश्ये वसन्तीनां साध्वीनां पूर्वोक्ता एव दोषाः समापतन्त्येवेति तादृशे प्रतिबद्ध उपाश्रये साध्वीभिर्न कदाऽपि बस्सन्म. मिलि तात्पर्यम् ।। सू० ३२॥ पूर्व निर्ग्रन्थासूत्रे प्रतिबद्धोपाश्रयो निषिद्धः, तत्प्रसङ्गात् यत्रोपाश्रये गृहस्थगृहमध्यमार्गेण गमनागमनं भवेत् सोऽपि प्रतिबद्ध एव कथ्यते, इति निम्रन्थानां ताशे उपाश्रये वस्तु न कल्पते इति निघमूत्रमाह-'नो कापइ०' गाहावह० इत्यादि । सूत्रम् - नो कप्पइ निग्गंधाणं गाहावइकुलस्स मझमज्झेणं गंतु वत्थए ॥ सू०३३॥ छाया- नो कल्पते निर्ग्रन्थानां गाधापतिकुलस्य मध्यमध्येन गत्वा घस्तुम् ॥सू०३३॥ चूर्णी-'नो कप्पइ' इति । निर्गन्थानां साधूनां गाथापतिकुलस्य गृहस्थगृहस्य मध्यमध्येन - मध्यमार्गेण गत्वा उपाश्रये गम्यते निर्गम्यते च, एषमुपलक्षणात् यस्योपाश्रयस्य मध्य मार्गेण गृहस्थाः स्वगृहे प्रविशन्ति निर्गच्छन्ति वा तादृशे उपाश्रये वस्तुं न कल्पते । तत्र निवास गमनागमनसमये साधूनां गृहस्थप्रक्रियायां दृष्टिपातो भवेत् , गृहस्थानामुपाश्रयमार्गेण गमनागमने ते साधूनामाहारोपवेशननिषदनादिप्रक्रियां पश्यन्ति तेन तेषां परस्परं तत्तत्प्रक्रियाणां समालोचनासंभवस्ततः परस्परं द्वेषकलहादिसंभवः, साधूनां तत्रस्थस्त्रीरूपदर्शने मोहोदयो वा भवेत् , ततः श्रामण्ये शङ्काकाक्षायनेके दोषाः समापतन्ति तस्मादेतादृशे उपाश्रये निम्रन्थानां वस्तुं न कल्पते ||सू. ३३॥ निम्रन्थीनां पूर्वोक्त उपाश्रये कारणसद्भावाद वस्तुं कल्पते इति निम्रन्थीसूत्रमाह-'कप्पा. गाहावइ०' इत्यादि । सूत्रम्--कप्पइ निगंयीणं गाहावइकुलस्स मज्झमझेण गंतुं वथए ||०३४|| छाया कल्पते नि स्थीनां गाधापतिकुलस्य मध्यमध्येन गत्या वस्तुम् ॥सू०३४॥ चूर्णी - 'कप्पइ' इति । निम्रन्थीनां गाथापतिकुलस्य मध्यमध्येन गल्या उपाश्रये गम्यते निर्गम्यते एतादृशे उपाश्रये वस्तुं कल्पते । ननु निम्रन्थसूत्रप्नोक्ता दोषास्तु साम्वीनामेव समापसन्ति तहि कथं तासां 'कल्पते' इति विधिरुक्तः ! अत्राह-निर्गन्ध्यः खीत्वेन स्वमावत एवं
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy