________________
१८
व्यवहारसूत्रे
विनयवैयावृत्या दिमिरा छोचनाचार्यमाराध्य आलोचनाकरणं आवर्जनाख्यः प्रथम आलोचनादोषः १ | आलोचकोऽनुमानं करोति यदयं ममाचार्यः अमुकप्रकारकवार्तालापादिचेष्टया मृदुदण्डप्रदायी भविष्यतीति विचार्य तथाविधां वार्त्ता कृत्या आलोचनाकरणं स अनुमानाख्यो द्वितीय raोचनादोष: २ । आचार्यादिना भया क्रियमाणं यदपराधजातं दृष्टं तस्यैवालोचनां करिष्यामोति मनसि निघाय अछोजनाकरणम् दृष्टास्यस्तृतीय आलोचनादोषः ३ । बादरस्यैव बृहत एव दोषजातस्यालोचनाकरणं न सूक्ष्मस्येति चतुर्थी भादराज्य आलोचनादोषः ४ | आचार्यो शास्यति ममाबाद कथं नालोचयिष्यतीति माचार्यस्य विश्वासोत्पादनार्थ सुक्ष्मस्यैव दोषजावस्थालोचनाकरणं सूक्ष्माख्यः पञ्चम आलोचनादोषः ५ । लज्जालुतामुपदर्श्य मन्दशब्देन पापं तथाssलोचयति यथा केवलं स्वयमेव शृणोति न तु आलोचनादायक आचार्यादिः, इत्येवमालोचनाकरणं षष्टः छत्नाभिष मालोचनादोषः ६ । महता शब्देन आलोचनाकरणं, तथा आलोचयति यथा अन्येऽपि अगीतार्थादयः शृण्वन्तीत्येष शब्दाकुलाख्यः सप्तम आलोचनादोषः ७ । एकान्तेऽनालोष्य बहुजनमध्ये आलोचनाकरणम्, अथवा एकस्याचार्यस्य समीपे आलोच्य तस्यैवापराधजातस्य अन्यान्याचार्याणां सविधेऽपि पुनः पुनरालोचना करणं बहुजनाख्योSee oोचनादोषः ८ । अव्यक्तस्य अगीतार्थस्य समीपे आलोचनाकरणं नवमोऽयक्तास्य आटोचनादोषः ९ । यमपराघमालोचयति तस्यैव पुनः सेवनं तत्सेविनामको दशम आलोचनादोषः १० । एतादृशदशदोषधारकः शिष्यः मालोचना नहीं भवति, नासौ आलोचनायोग्य इति स्थानाङ्गस्य दशमे स्थाने प्रोक्तमिति । दशभ्यः कारणेभ्यो दोषाः समापद्यन्ते इति दश दोषान् गाथाद्वयेन दर्शयति-
"कंदप्पो १ य पाओ २, अन्नाणं ३ तह अकमहभावो ४ य । आवती ५ तह संड ६, छुझ ७ तहा रागदोसा ८ य ॥ १ ॥ न च भर्चणेयं ९, दसमं पुण परनिमित्तसंजयं १० । एवं कारणजायं, दोसुपाए सुयध्वं " ||२|| इति ।
छाया - कन्दर्पश्च १ प्रमादः २, अज्ञानं ३ तथा अकस्माद्भाव आपत्तिः५ तथा संकटः ६ क्षुधा ७ तथा रागद्वेषौ ८ ११॥ नवमं अभयं ९ ज्ञेयम्, दशमं पुनः परनिमित्तसज्ञातम् १० । पतत् कारणजातं, दोषोत्पावे बातव्यम् ||२||
तत्र – कन्दर्पः कामविकारः तद्वशवर्त्ती पापं सेवते १ । प्रमादः - निद्राविकथादिरूपः २ | अज्ञानं दोषानभिज्ञत्वम् ३ । अकस्माद्भावः अचिन्त्यत्वेन समापतितम् ४ । आपत्तिः - दुष्टराजादिजन्मा ५ । संकटः- मरणादिरूपः ६ । क्षुषा क्षुधापरीषहस्याऽ सहनशीलत्वम्, यथा "बुभुक्षितः कि