________________
२७०
'सेहवे यावच्चे' शैक्षवैयावृत्यम्, तत्र शैक्षः शिश्यते शास्त्रदर्शित विधिर्ज्ञायते श्रताविचारादियस्य सः शैक्षः शिक्षयितुं योग्यः शक्षः, यद्वा प्रहण | सेवन शिक्षायोग्यः शैक्षस्तस्य वैयावृत्यम् समये समये तस्य वैयावृत्यं ग्रहणासेवनीशिक्षाप्रदानरूपं पश्चमं वैयावृत्यम् ५ ।
'गिलाण यावच्चे' ग्लानवैयावृत्यम् तत्रानो रोगतपोभेदेन द्विविधः, रोगेण ग्लानस्वपसा वा ग्लानस्तस्य वैयावृत्यम् औषधान्नपानादिभिरभिभावनमिति षष्ठं वैयावृत्त्यम् ६ ।
'साइम्मियवेयावच्चे' साधर्मिकवैयावृत्यम् तत्र समान एको धर्मः श्रुतचारित्रलक्षणो येषां ते साधर्मिकाः समानधर्माचरणशीलाः साघवस्तेषां वैयावृत्यं सप्तमं वैयावृत्यम् ७ ।
'कुलवेयावच्चे' कुलवैयावृत्यम् तत्र कुलम् एकगुरूपरिवाररूपः साधुसमुदायस्तस्य वैयावृत्यम् अष्टमं वैयावृत्यम् ८ |
'गणवेयावच्चे' गणवैयावृत्यम्, गणस्य एकगुरुपरम्परागत साधुसमुदायस्य वैयावृत्यं नवमं वैयावृत्यम् ९ ।
'संघवेयावच्चे' सङ्घवैयावृत्यम्, तत्र संघस्य साधुसाध्वीरूपस्य भक्तपानवस्त्रपात्रादिना, चतुर्विधसंघस्य वा परतीर्थिक विवाद निवारणादिना सदुपदेशादिना च वैयावृत्त्यम् दशर्म वैयावृत्यम् १० । एतदशविधं वैयावृत्त्यं भगवता प्ररूपितमिति ॥ सू० ३८ ॥
पूर्वं दशविधं वैयावृत्यं नामनिर्देशपूर्वकं प्रदर्शितम्, साम्प्रतं सर्वेषां मुख्यत्वेन प्रथममाचार्यवैयावृत्त्यस्य फलं प्रदर्शयति- 'आयरियवेयावच्चे' इत्यादि ।
सूत्रम् — आयरियत्रेयावच्चे करेमाणे समणे णिमांचे महानिज्जरे महापज्जबसाणे भवइ || सू० ३९ ॥
छाया - आचार्यवैयावृत्यं कुर्वन् श्रमणो निर्धन्धो महानिर्जरो महापर्यवसानो भवति ॥ सू० ३९ ॥
'आयरियत्रेयावच्चे' आचार्यवैयावृत्त्यम्, तत्राचार्यस्य गणनायकस्य वैयावृत्यं तच्च त्रयोदशभिः प्रकारैः क्रियते, अत्र गाथाद्वयमाइ 'भत पाणं च' इत्यादि ।
"भ १ पाणं २ च सेज्जा ३, आसणदाणं ४ तदेव पडिले ५ । पापमज्जण ६ ओसह ७, अद्धागमणे ८ प रामदुडे य ९ ॥१॥ तेा १० पत्तम्गणं ११, गेलने १२ पत्तदोयणं १३ चैत्र । एवं आयरियाणं, वैयावच्च करे मोक्खट्टी" ॥२॥