________________
२६६
व्यवहारसूर्य चतुर्दशवर्षपर्यायमधिकृत्याह- 'चउद्दसवासपरियायस्स समणस्स' इत्यादि ।
सूत्रम्- चउदसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ मुमिणभावणा णाम अज्झयणं उद्दिसित्तए । सू० ३१ ॥
छाया-चतुर्दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते स्वप्नभाषमा नामाश्ययनमुद्देष्टुम् ॥ स्• ३१ ॥
___ भाष्यम—'चउदसवासपरियायस्स' चतुर्दशवर्षदीक्षापर्यायस्य-यस्य श्रमणस्य दीक्षापर्यायो-दीक्षाग्रहणकालः चतुर्दशवर्षास्मको व्यतीतः तादृशस्य, 'समणस्त णिगंथस्स' श्रमणस्य निम्रन्थस्य 'कप्पई' कल्पते 'सुमिणभावणा णाम अज्झयणं' स्वप्नभावनामाध्ययनम् , । यस्मिमध्ययने सामान्यतः त्रिंशत्स्वानाः विशेषतो द्वा चत्वारिंशत् स्वप्नाः प्रतिपादिताः, कीदृशस्य स्वप्नस्य कीदृशं शुममशुभ वा फलं भवति, एतत्प्रतिपादकमध्ययनं स्वप्नभावनाध्ययनम् इति कथ्यते । तादृशं स्वप्नभावनानामकमभ्ययनम् 'उदिसित्तए' उटेष्टुमध्यापयितुं कल्पते इति ।
अयं भावः- यदा खल्ल मनो निदावस्थायां हृदयेऽवस्थितं भवति तदा दृष्टश्रुतान् अर्थान् पश्यति स स्वप्नः कारणभेदात् प्रिप्रकारको भवति, रोगबलात् वासनावलात् , अष्टबलान्च । तत्र-रोगस्त्रिविधः पैत्तिको वातिक: ब्लैष्मिकश्च । तत्र-ज्वरादिरोगाकान्तः स्वप्नेऽग्निदाहादिकं पश्यति । वातरोमाकान्तो रात्रौ-आकाशगमनादिकं पश्यति, "लैष्मिकरोगपीडितस्तु जलसंतरणादिकं पश्यति, सोऽयं स्वप्नो रोगजनितः कथ्यते । वासनाजनितस्तु स यो वासनया समुत्पद्यते, तत्र-वासनादिवसे दृष्टस्य श्रुतस्य वा विषयजातस्य संस्कारक्शाद् रात्रौ शयानः तमेव पदार्थजातं पश्यति यः स तादृशः । इमौ द्वावपि स्वप्नौ न फलदायको भवतो वासनाजनितः स्वप्नः कथ्यते ।
तृतीयस्तु –अदृष्टजनितः--भाग्यजनितः स शुभमशुभं वा फलं ददाति । तत्राऽदृष्टजनिताः सामान्यतत्रिंशत् स्वप्ना: विशेषतो द्वाचत्वारिंशत् स्वप्नाः, सङ्कलनया दासप्ततिसंख्यका भवन्ति । तदुक्तममुकस्वप्नस्य फलम् –
"यदा कर्मसु काम्येयु, स्त्रियं पश्यति पुरुषः ।
अरिष्टं तत्र जानीयात् , तस्मिस्वप्ननिदर्शने ॥१॥ इत्यादिना शुभाशुभफलसूचकत्वं स्वप्नस्य दर्शिनम् । स्वप्ने खररोहणादीनि जघन्यानि वस्तूनि पश्यन्ति, तेन 'अशुभफलमूचनं भवति । विशेषतस्तु-स्वप्नान्यायादेव द्रष्टव्यम् ।। मू० ३१॥
पञ्चदशवर्षपर्यायमधिकृत्याऽऽइ - 'पन्नरसवासपरियायस्स' इत्यादि ।
मूत्रम् - पन्नरसवासपरियायस्स समणस्स णिग्गयस्स कप्पइ चारणभावणा णाम अज्मयणं उद्दिसित्तए ॥ ० ३२ ॥