SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २५८ व्यवहारस्ने Virmwww भाग्यम्- 'तओ' तिस्रः-त्रिप्रकारिका: 'येरभूमीभी पन्नत्ताओ' स्थविरममयः प्रज्ञमाः तन्त्र-भूमिः स्थानं काल इत्ये कार्थः तेनायमर्थः- स्थविरस्य मूमिः - अवस्थारूपः कालः, तास्तिसः प्रज्ञताः, ता एबाह --'तंजहा' इत्यादि, "तंजहा' तथथा-'नाइथेरे' जातिस्थविरः, 'सुयथेरे' श्रुतस्थविरः, 'परिपाययेरे ये पर्यायस्थविरश्च । तत्रैषां त्रयाणां स्थविराणां व्याख्यानं सूत्रकारः स्वयं करोति- सद्विवासजाए' इत्यादि, 'सहिवासजाए' पष्टिवर्षजातः-जन्मतः पठिवर्घायुष्कः साधुः 'जाइथेरे' जातिस्थविरः कथ्यते १ ठाणसापर सुयबर स्थानसमवायत्र:-स्थानातसमवायाधरः श्रुतस्थविरः प्रोच्यते २ । बीसवासपरियाए परियायथेरे' विंशतिवर्षपर्यायः- विंशतिवर्पदीक्षापर्यायवान् पर्यायस्थविर उच्यते ३ इति । एषां त्रयाणामपि स्थविराणां सत्कारसम्मानादिपूर्वकं तदयोग्यं यावृत्त्यमन्यसाधुमिः कर्तव्यम्, तथाहि- यो हि जातिस्थविरः षष्टिवर्पजातः, तस्य स्थविरस्य देश-काल- स्वभावानुमताहारपानीयादितिव्यः । उपधिर्यावता संस्तरति तावत्प्रमाणको दातव्यः । तथा-शव्यावसतिरनुकुला दातव्या । संस्तारको मृदुको देयः । तथा क्षेत्रान्तरगमनसमये जातिस्थविरस्योपध्यादिकमन्ये वहन्तीति जातिस्थविरस्य वैयावृत्तिप्रकार: १ । तथा— श्रुतस्थविरस्य श्रुतेन तपसा, वृद्धस्य कृनिकर्म-वन्दनादिकं कर्त्तव्यम्, तस्म छन्दतो ऽनुवर्तनं कर्तव्यम् । एवमागतस्य श्रुतस्थविरस्याऽभ्युत्थानमभिवादनं पादप्रमार्जनादिकं कर्तव्यम् । तयोग्यमाहारादिकमानीय समर्पणीयम् । तदीयगुणानां प्रशंसनं कर्तव्यम् । यत्र श्रुतस्थविर उपविष्टो भवेत् तन्न तदपेक्षया नोचैः शय्यायामुपवेष्टव्यम् । तस्याऽऽज्ञा सर्वदा परिपालनीया । एवंप्रकारेण श्रुतस्थविरस्य समानपूर्वकं चैयाइत्त्यं विधेयमिति श्रुतस्थविरस्य वैयावृत्त्यप्रकारः २ । तथा पर्यायस्थविरस्य अप्राजकस्यापि वाचनामदातुरपि आगच्छतोऽभ्युत्थानादिकं सहर्ष कर्तव्यम् । योग्यमाहारादिकमानीय तस्मै समर्पणीयमिति पर्यायस्थविरस्य चयावृत्यप्रकार इति ।। सू० १७॥ पूर्व तित्रः स्थविरभूमयः प्रदर्शिताः, स्थविराणां वैयावृश्यादिकं शैक्ष एव कर्त्तमहतोति शैक्षसूत्रमाह-अथवा स्थविरपक्षाः शैक्षा इति स्थविरसूत्रानन्तरं शैक्षसूत्रमाह--'तो' इत्यादि । सूत्रम्--'तओ सेइभूमीओ पन्नताओ, तनहा-सत्तराइंदिया, चाउम्मासिया, छम्मासिया । छम्मासिया य उक्कोसिया, चाउम्मासिया मज्झमिया, सत्तरादिया जहन्ना ॥ सू०१८॥ छाया-तिस्रः शैक्षभूमयः प्रज्ञप्ता, तद्यथा-सप्तराविदिवा, चातुर्मासिकी, पाण्मासिकी। पापमासिकी बोत्कृष्टा, चातुर्मासिकी मध्यमा, सप्तराविम्दिवा जघन्या' ।। सू०१८॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy