________________
व्यवहारसूत्रे
'भाष्यम् – 'चत्तारि' चत्वारः चतुःसंख्यकाः 'पुरिसजाया पन्नता' पुरुषजाता पुरुषप्रकाराः प्रज्ञप्ताः, तानेव चतुरः प्रकाशन् दर्शयितुमाह - 'जहा' इत्यादि । 'संजहा' तथा - 'गणसहिकरे एकएको नो मानकरः । तत्र - गणस्य शोधि प्रायश्चिचदानेन धर्मप्ररूपणया च विशुद्धिं करोतीति गणशोधिकरो न सु - मानकरः १ । 'एगे माणकरे नो गणसोहिकरे २' एको मानकरी भवति नो न तु कदाचिदपि गणस्य शोषिकरो भवति २ । 'एगे गणसोटिकरेवि माणकरेवि ३' एको गणशोषिकरोऽपि मानकरोऽपि ३ । 'एगे नो गणसोहिकरे नो माणकरे ४' एको नो गुणशोधकरो नो मानकरः ४ । अत्रापि प्रथमतृतीयभङ्गौ सफलौं, द्वितीयचतुर्थौ विफलाविति । अत्रायं दृष्टान्तः
२५०
एकस्मिन् नगरे जनपद विहारेण विहरन्त माचार्या अनेकैर्मुनिसङ्घारकैः सह समवसृताः । तत्र साधुसङ्घाटकाः पृथक् २ भिक्षार्थं प्रामे प्रविष्टवन्तः, तत्रैकस्मिन् गृहस्थगृद्दे एकः संघाटको भिक्षार्थं गतः, तत्र तस्य गृहे तदा प्राघुणकादिनिमित्तं बहुलं मोदकानां भोज्यं सम्पादितमासीत् ततस्तस्मै साधुसकाकाय विपुला मोदकाः प्रतिलाभिताः । तदनन्तरमकस्माद द्वितीयः साटोsपि तत्रैव गतः तेनापि विपुला मोदका लब्धाः । एवं तृतीयचतुर्थः सम्राटकोऽपि तत्र गतः मोदकांश्च लब्धवान् । आगताः सर्वे उपाश्रये, भाचार्येभ्यो भिक्षा प्रदर्शिता । सर्वेषां सदृशभिक्षालाभेन तेषां साधूनां मनसि शङ्का जाता यदेतेषां मोदकानामुद्गमा अशुद्धाः संभवेयुः साधूनागतान् श्रुत्वा साध्वर्थमिमे संपादिता इति लक्ष्यते । इति शङ्किते गवा तद्गृहं द्रष्टव्यं स प्रष्टव्यश्च भवेत् मो श्रमणोपासक 1 व्यय तव गृहे संखडितले प्राणका वा समागता: :, अथवा साधूनां कृते मोदकाः संपादिताः कौता वेति । तत्र च गद्दे भोजनवेलायां न कोऽपि प्रवेशं लभते एतादृश: साहसिकः साधुर्यो भोजनवेलायां गृहस्थगृहे प्रविशेत् पृच्छां विना एतदशनादि साधुभिर्न भोक्तव्यम् एष साधुकल्पः । तत्रैक: ओजस्वी साधुः तद्गृहजनानां परिचित स तस्मिन् गृहेऽनिवारितप्रसरस्तद् दुष्प्रवेशं गृहं प्रविशति । प्रविश्य च तेषां मोदकानामुद्रमं पृच्छाप्रतिपृच्छादिना विज्ञाय शुद्ध एषामुद्रमः इति निशङ्कितं करोति । आगत्याऽऽचार्यपादमूले निवेदयति न मानं करोति, एष प्रथमः पुरुषजातो यो मानेन गवाऽऽहारस्य शोधिं कृतवान् तेनायं शोधिकरो नो मानकर इति १ | एवं द्वितीयः केवलं मानकरः किन्तु शोधिकरणेऽसमर्थः २ ॥ तृतीयः शोधिमपि करोति, कृत्वा मानमपि करोति ३ । चतुर्थस्तु नोभयकरणसमर्थः । इति भङ्गचतुष्टयभावना ॥ सू० १० ।।
J
पूर्वं शोधिमाश्रित्य चतुर्भी प्रोका. तत्र शोधिरिति वा धर्म इति वा एकार्थः धर्मश्व रूपतो भाव चेति द्विधा भवति ततो रूपधर्मो भयमधिकृत्य चतुर्भङ्गोमाइ- 'चन्वारि' इत्यादि ।