________________
भाग्यम् १० १० सू० १०
चतुष्प्रकारपुरुषजातनिरूपणम् २४१ सोइकरेवि माणकरेवि' एकस्तृतीयः सः-यो गणशोभाकरोऽपि मानकरोऽपि शोभामानयोरुभयोरपि कारकः स तृतीयः ३ । 'एगे नो गणसोहकरे नो माणकरें' एकवचतुर्थः स पुरुषो यो न कदाचिदपि गणशोभाकरो न वा मानकरो भवति उमयचर्जिनश्चतुर्थः ४ । अत्रापि-चतुर्पु भङ्गेषु मध्ये प्रथमतृतीयौ सफलौ, द्वितीय चतुर्थभङ्गो विफलाविति ॥
तत्र-गणशोमाकरो नाम-यो गणं शोभयति, शोभा खल वादिजयप्रवचनोहाहनिवारणादिभिर्भवति, तथाहि-वादेन वादिनं पराजित्य गणं शोभयति, उसूत्रप्ररूपकं मूत्रार्थ सम्यक् प्रदर्य जिनमार्गे स्थापयति, प्रवचनाक्षेपकान् सूत्रप्रमाणं प्रदा प्रवचनामावनां वर्धयति धर्म-कथादिभिर्निमित्तैः, तथा विधादिभिश्चोन्मार्गगतान् यथायोगं जिनध मानयति, इत्येवंप्रकारेण सदा गणं शोमयति । ____ अयं भावः- यदा कदाचित् सकलदर्शनपारवा वादी समागत्य गणनायकस्य पुरत एवं वदति-भो आचार्य मतप्रचारक ! साधो ! यदि त्वयि पाण्डित्यं भवेत् , यदि वा पाण्डित्येन स्वकीयं मतं लोके व्यवस्थापथसि, तहि राजादिपरिवृतपरिषदि मया सह वादं कुरु, यदि मां विजेष्यसि तदा त्वन्मतस्य संस्थापनं स्यात् , अहं तव धर्म स्वीकरिष्यामि, नो चेत् केवलं विप्रतारकमेव त्यां मन्ये । तदा यदि प्रतिवादिना वादं क स गणनायको न शक्तो भवेत् तदा महती शासनस्याऽप्रतिष्ठा स्यात् इति मन्यमानो वादनिपुणः साधुस्त दुन्तिवादिनं सर्वज्ञसिदान्तोक्तमनेकान्तवादं पुरस्कृत्य पराजयति, पराजित्य च तं वादिनं जिनधर्म स्थापयित्वा शास. नस्य शोभा वर्धयति । पर्वप्रकारेण स गणस्य शोभाकरो भवति । न केवलं वादेनैव पराजिन्य गणशोभाकरः किन्तु धर्मकयां कृत्वा गणं शोभयति । तथा निमित्तादिशा सम्यग् ज्ञात्वा निमित्तादिकथनद्वारा राजानमावर्जयित्या शासनस्य ख्याति लोके संपादति । एवं विद्यादि. बचात् महतोऽपि सहप्रयोजनस्य साधनाद् गणं शोभयति । यदा कदाचित् सस्य महत्कार्य समुपस्थितं भवेत् कार्य च तादृशं प्रकारान्तरेण साधितं न भवति, तदा स साधुः विधानिशयमभावेण सहत्य तादृशं कार्य साधयन् गणशोभाकरो भवतीति । सू० ९ ॥ ___अथ-शोधिमधिकृत्य चतुर्भङ्गीमाइ-चत्तारि पुरिसजाया' इत्यादि ।
सूत्रम्-चत्तारि पुरिसजाया पन्नता, तंजहा गणसोहिकरे णाम एगे नो माणकरे १, एगे माणकरे नो गणसोहिकरे २, एगे गणसोहिकरेवि माणकरवि ३, एगे नो गणसोहिकरे नो माणकरे ॥ सू० १०॥
छाया-पत्यारः पुरुषजाताः प्राप्ताः, तद्यथा-गणशोधिफरो नाम एको नो मानकरः ।, एको मानकरो नो गणशोधिकरः १, पको गणशोधिकरोऽपि मानकरोऽपि ३, पको न गणशोधिकरो नो मानकरः ।। स. १०।।