________________
व्यवहारको ब्युच्छेदो भविष्यति तदा शेषैर्व्यबहारैर्व्यवहर्त्तव्यं भविष्यतीति कृत्वा श्रुतादिन्यवहारानपि सूत्रे निबद्धवन्तः । तत्रापि व्यवहारः क्षेत्रं कालं च प्राप्य यो यथा संभविष्यति, तेन तथा व्यवहारः करणीयो भविष्यतीति ।
मयं भावः– यस्मिन् यस्मिन् काले यो यो व्यवहारो व्यवस्छिन्नोऽव्यवच्छिन्नो वा भवि. यति तस्मिन् तस्मिन् काले प्रागुक्तकमेण साधवो व्यवहारं व्यवरिष्यन्ति । तथा यस्मिन् यस्मिन् क्षेत्रे युगप्रथानैराचार्यादिभियों यां व्यवस्था व्यवस्थापयिभ्यन्ति तया तया व्यवस्थया अनिश्रितोपश्रित व्यवहारः प्रवर्तितो भविष्यतीति विचार्य आगमादिपञ्चव्यवहारसूत्रं ते निबद्धवन्त इति ।
अपि च-मागमादिका धारणान्ताश्चत्वारो व्यवहाराः यावतीर्थप्रवृत्तिस्तावद् भविष्यति, जीतव्यवहारस्तु यावच्चतुर्विधः समः प्रचलिष्यति तावत्कालपर्यन्तं स्थास्यति तस्मात् कारणात् जीतव्यहारोपादानं कृतमिति विवेकः ।
सूत्रे यदुक्तम्-सूत्रोक्तव्यवहारं व्यबहरन् श्रमणो निम्रन्थ आज्ञया आराधको भवतीति, सा चाऽऽराधना खल्ल त्रिप्रकारिका भवति यथा---उस्कृष्टाऽऽराधना १, मध्यमाऽऽराघना २, जघन्याऽऽराधना च । तत्रोत्कृष्टाया आराधनायाः फलम्-एको भवः, मध्यमाया आराधनायाः फलम् द्वौ भवौ, जघन्याया भाराधनायाः फलम्—प्रयो भवाः । अथवा यदि तद्भवे मोक्षो न जातस्तदा उत्कृष्टाया माराधनायाः फलम्-जघन्यसंसरणम् द्वौ भयो । मध्यमाया आराधनायाख्यो भवाः, जपन्याया माराधनाया उत्कृष्टा मष्टौ भवा भवेयुरित्याराधनायाः फल विज्ञेयम् |
सूत्रोकव्यवहारपदव्याख्या यथा-येनाऽऽगमादिना श्रमणो व्यवहरति-व्यवहारं करोति सोऽध्यागमादियवहारः, व्यवहियतेऽनेनेति व्युत्पत्या-मागमादेरपि व्यवहारल्यात, यद्यपि व्यवहर्तव्य वस्तुप्रतिक्रमणप्रतिलेखनादिक मुनिर्थवहरति सोऽपि व्यवहार एव | व्यवहिन्यते यः स व्यवहार इति कर्मसाधनात् तदेवं करणे कर्मणि उभयत्रापि व्यवहारशब्दः प्रयुज्यते शाब्दिकमर्यादाबलात् ।। सू० ५॥
पूर्व व्यवहाराः प्रदर्शिताः, ते च पुरुषाधीना भवन्तीति तान् सम्यग्ज्ञानवन्तः पुरुषा एवं व्यवह महन्तीति । पुरुषाश्वार्थकरा मानकरा इति द्विविधा भवन्तीति तेषां चतुर्भङ्गी प्रदर्यते'चत्तारि' इत्यादि।
सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता तंजहा-अष्टकरे नाम एगे नो माणकरे १, माणकरे णाम एगे नो अट्टकरे २, एगे अट्ठकरे वि माणकरे वि ३, एगे नो अट्ठकरे नो माणकरे ॥ सू०६॥