________________
भाष्यम् उ० १० सू०२
यवमध्यचन्द्रप्रतिमास्वरूपम् २३५ वास्यायां चोपोषितो भवति, चतुर्थभक्तं करोतीत्यर्थः । ततश्चचन्द्राकारतया चन्द्र प्रतिमा आदा. वन्ते च मिक्षायास्त नुल्लात् मध्ये विपुलत्वात् अवमध्योपमितमव्यभागा, एवम्भूतां यवमध्यचन्द्रप्रतिमाम् 'पडिबन्नस्स' प्रतिपन्नस्य 'अणगारस्स' अनगारस्य-साधोः स्वीकृत यवमध्यचन्द्रप्रतिमस्य भिक्षोः, 'मुक्कपरखस्स पाडिवए' शुक्लपक्षस्य प्रतिपत्तियो ‘फप्पई' एग दति भोगणस्स पड़िगाहित्तए' कल्पते एका दत्ति भोजनस्य प्रतिग्रहीतुम् , तथा-'एगं पाणगस्स' एकां दतिं पानकस्य प्रतिग्रहीतुं कल्पते । कदा कल्पते ? इत्याह-'सन्चेदि इत्यादि, 'सधेहि दुप्पयचउप्पयाइपहि हारकबीहिं सनेहि पडिणियसहि' सद्विपदचतुष्पदादिभिराहारफाक्षिभिः सत्वैः--प्राणिगिः आहारं कृत्वा प्रतिनिवृत्तः, अत्र सप्तम्यर्षे तृतीया प्राकृतत्वात् तेन सर्वेषु द्विपदचतुष्पदादिपु आहारकाक्षिषु सत्वेषु प्रतिनिवृत्तेषु सत्सु, इत्यर्थः ।
अयं भावः--तस्मिन् समये साधुभिक्षार्थ गच्छेत् यदा सर्वेऽति द्विषदचतुष्पदादयो जीवा आहारकांक्षिणः आहारं कृत्वा प्रतिनिवृत्ता भवेयुस्तदवसरे साधुर्भिक्षार्थ परिभ्रमेदिति । कोशमाहारं गृहोयात्तत्राइ-'अन्नायउंछे' भज्ञातोछम् , अज्ञातस्थ-अपरिचितकुलस्य उञ्छम्-अल्पमल्पं 'सुद्धोबहई' शुद्रोपहनम् निर्दोषमाहारं दातुमुस्थापितम् , यद्वा शुद्धन-सचित्तादिसंपर्कराहतेन गृहस्थेन उपहृतम्-दाणु हस्ते गृहीतं तत् मन्यस्मै दत्त्वा अवशिष्टं स्याद्भवेत् । 'निज्जूहित्ता बारे समण-माहण-अइदि-फिवण वणीमगा' वहून् श्रमण-माहना ऽतिथि-कृपण-वन पकान् । तत्रश्रमणः-शायभिक्षुः, माइनो भिक्षावृत्तिको ब्राह्मणः, मतिथिः - प्राघुर्णकादिः, कृपणः दीनः, वनीएकोयाचकः, इत्येतान् सर्वान् नियूह्य-भिक्षाग्रहणप्रवृत्तान् वर्जयित्वा, यदा ते भिक्षा गृहन्तो भवेयुस्तदा तत्र साधुना भिक्षार्थ न गन्तव्यमिति भावः । तत्समये तत्र गतस्य 'कप्पड़ से एगस्स अजमाणस्स पहिगाहित्तए' कल्पते तस्य-गृहस्थगृहे प्रविष्टस्य, तत्र एकस्य भुञानस्य प्रतिग्रहीतुम्, एक एव पुरुषो यत्र भुङ्क्ते तस्य हस्तादेवान्नपानादिकं प्रतिग्रहीतुं कल्पते किन्तु-'नो दोहं नो तिण्ई नो द्वयोः पुरुषयोर्भुजानयोस्त्रयाणां वा भुञ्जानानाम् एकम्-'नो चउण्हं नो पंचण्ई' नो चतुर्णा नो वा पञ्चानां हस्ताद् भिक्षा प्रतिग्रहीतुं कल्पत्ते, एवम् 'नो गुब्बिणीप' नो गुर्विण्या गर्भवत्या हस्तात् 'नो वालवच्छाए' नो बालवत्सायाः यस्य बालोऽव्यक्तः, स न तस्या विरहे तिष्ठति एतादृश्या हस्तात , एवम् -'नो दारंग पेज्जमाणीए'नो दारकं पाययन्त्याः- बालकं स्तन्यं धायन्याः, या स्त्री बालकं स्तन्थं पायर्यात तहस्तादपि भिक्षा ग्रहीतुं न कल्पते, पुनश्च 'नो से कप्पा अंतो पलुएस्स दोवि पाए साइदद दळमाणीए' न तस्य श्रमणस्य कल्पतेऽन्तर्मध्ये एलकस्य. गृहदेहल्याः द्वाचपि पादौ-चरणो संहत्य-स्थापयित्वा ददायाः, गृहद्वाराभ्यन्तर पादद्वयं संध्य या भिक्षा ददानि तहस्तादपि नो महोतुं कल्पते 'नो चाहि एलुयस्स दोवि पाए साहहु दलमाणीए' नो-न वा बहिः- बहिर्भागे पलकस्य-गृहद्वारस्य द्वावपि पादौ संहत्य भिक्षा ददायाः, गृहस्य बहिर्भागे चरणद्वय स्थापयित्वा या भिक्षां ददाति तद्धस्तादपि प्रहीतुं न कल्पते इति