SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ wwwwimarnama RAMAAAMANANARAMMMAA ज्यवहारको चन्द्रप्रतिमाया योनोषमा चन्द्रेण चोपमा, यवस्येव मध्यं पृथुलत्वेन यस्याः सा यवमभ्या चन्द्राकारा प्रतिमेति व्युत्पत्तेः । एवं वनमध्य चन्द्रप्रतिमायाः वज्रेण 'चन्द्रेण च सादृश्यम् वप्रवद् मध्यभागस्तनकावेन यस्याः सा यलमध्या चन्द्राकारा प्रतिमा बन्नमध्यचन्द्रप्रतिमा. इत्येवं द्विप्रकारिके प्रतिमे इति । तत्र-'जबमझं णं चंदपडिमं पडिबन्नस्स अणगारस्स' यवमध्यां खलु चन्द्राकारां प्रतिमा प्रतिपन्नस्य प्राप्तस्य-प्रतिपन्नयवमध्यचन्द्रप्रतिमस्याऽनगारस्य भिक्षोः 'निच्च मास' नित्यं-सदा दिवा रात्रौ मासम् एकमासं यावत् यावान् प्रतिमाकालस्वावत्कालपर्यन्तम् 'पोसटकाए' व्युत्सृष्टकाये व्युत्सृष्टः ममत्वाभावेन विसर्जितः एतादृशश्वासौ कायश्च अस्य्यादिचयात्मकत्वाकायः शरीरमिति व्युत्सृष्टकायस्तस्मिन् ममत्ववर्जिते शरीर इत्यर्थः । व्युत्सृष्टकायो विविधः-द्रव्यतो मावतश्च, तत्र व्यतो मलमलिनोऽप्यकृतस्नानः विभूमावर्जितः भूमिशायित्वादिरूपः, भावतो-युरसृष्टकायो यो बातिक- पैत्तिक-श्लैष्मिकरोगातकैः स्पृष्टोऽपि कायममत्वाभावान्न काश्चिदपि भोपधमैषज्यादिना कायविषयां परिचाणादिरूणं चिन्तां करोति यः, पनादशे ममत्ववर्जिते काये, यतो व्युत्सृष्टकायस्ततः चियत्तदेहे त्यक्तदेहे कायममत्वरहितरवेन त्यक्त इव स्यक्तश्चासौ देहश्च तस्मिन् स्यक्तदेहभावे परिणामभावे शरीरे । एतादृशं देई यदि कोऽपि हन्याद बनीयात, रुन्ध्यात्, ताडयेट्टा तथापि तं न निवारयत्ति प्रत्युत धृतनिर्जराभाव एवं विभावयति-'नेदं शरीरं मम, शरीरमन्यद अह चान्योऽतः को मां मारयितुं शक्नोति अजरामरोऽहम् एतेन वघबन्धमादिना मम कर्मनिर्जरा भवति' इति भावनया भावितस्यानगारस्य तादृशे देहे 'जे केइ परीसहोवसम्गा' ये केचित् परीषहोपसर्गाः पहीपदाश्च उपसश्चिति परीषहोपसर्गाः, तत्र परोपहा:-क्षुपिपासादयो द्वाविंशतिविधाः, उपसर्गा देवादिकृतास्त्रिविघाः 'समुप्पज्जति' समुपयन्ते उपस्थिता भवन्ति, के ते उपसर्गाः । इति उपसर्गान् प्रदर्शयति - 'दिव्या वा मणुस्सगा वा तिरिक्खजोणिया या दिव्या वा मानुष्य का वा तैयायोनिका वा, तत्र दिव्या-देवकृता मापनसंहरणादयः, मानुष्यका वधबन्धनादयः, तैर्यग्योनिकाः श्वापदादिकृताः, एते त्रिविधा अपि उपसर्गास्तस्मिन् त्यकममत्वे देहे समुत्पयन्ते । त इमे त्रयोऽपि परीषहोपसर्गाः प्रत्येक चतुर्धा भवन्ति, सर्वसङ्कलनया द्वादश, तत्र दिल्या उपसर्गाश्चत्वारः-हासात् प्रक्षेपात् विमर्शतो विमानातो वा । एवं मनुण्यकृता अपि चत्वारः-हासात् प्रद्वेषात् विमर्शात् कुशीलप्रतिसेवनात् । तैरश्चा मपि चतुर्विधाः-भयात् प्रद्वेषतः, आहारकारणाद् , अपत्यरक्षाकारणतश्चेति भवेयुः । ते पुनः 'अणुलोमा चा' अनुलोमाः-प्रीतिकरा उपसर्गाः, 'पडिलोमा' प्रतिकूला वा | 'तत्य अणुलोमा वाव' तत्राऽनुलोमप्रतिलोमोपसर्गयोमध्ये येऽनुलोमा देवादिकृताः तावत् कोऽपि देवादिः प्रतिमाभ्रंशकरणार्थ साधुम् 'वंदेज्जा' बन्देत बन्दन कुर्यात् 'नमंसिजा' नमस्येत्-नमस्कारं कुर्यात् 'सक्कारेज्जा' सत्कारयेत्-साधोः सत्कारं कुर्यात् 'संमाणेज्जा वा' सम्मानयेत्-संमानं वा कुर्यात् 'कल्याणं मंगलं देवयं चेइयं पज्जुपासेज्जा' कल्याण
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy