SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२४ व्यवहारमा पभिरूपवासैः पारयति-पारणां करोति 'अमोच्चा आरुमा सोलसमेण पारेह' सथ मदि अभुक्त्वा. भोजनम कृत्वा भारोहति प्रतिमा प्रतिपद्यते तदा पोडशेन-पोडशभक्तेन सप्तभिरूपवास: पास्मति पारणां करोति । तत्र विधिमाह-प्रतिमासमाचरणकाले 'जाए जाए मोए आवियम् जातं जातं मोकं मात्र प्रस्रवणमित्यर्थः आपातव्यम् , तत्रापि यत् 'दिया आगच्छइ आवियचे' दिवा-दिवसे भागच्छति मोकं तत आपातन्यम् 'राई आगच्छह नो आवियन्वे' यत् रात्रौ बागच्छति तद् नो आपातम्यम् रात्रौ वीर्यप्राणादेरदर्शनात् किन्तु परिधापयितव्यम्, एवमप्रेऽपि योज्यम् । मोक द्विविधं भवति-स्वाभाविक तदितरद्वा, तत्र स्वाभाविक प्राणादिवर्जितं, तदितरत् प्राणादिसंमिश्रम् , तत्र स्वाभाविकं पातव्यम्, अस्वाभाविक परिष्ठापनीयम्, तदेवाह-तत्रापि दिवसेऽपि यदि 'सपाणे मत्ते आगच्छद नो आवियध्वे' सप्राणं जीवविशिष्टं मात्रकम् मागच्छति तदा नो मापातव्यं न पातव्यम्, 'अपाणे मते आगच्छा आवियचे अप्राणम्-प्राणिविवर्जितं मात्रकमागच्छति तदा आपातव्यम् 1 सप्राणं मोकमेवं भवेत्-उदरे कृमयो भवेयुस्से चोष्णप्रकृत्या तापिताः सन्तो मोकेन साईमागच्छेयुः, ताश्च छायायां निःसृजेत्, 'सबीए मत्ते आगच्छद नो भाचियन्वे' सबीजं बीजमिति वीर्यम् वीर्यविशिष्ट मात्रफमागच्छति तदा नो आपातव्यम्, 'अधीए मचे आगच्छई आवियच्चे' यदि मनी भीमरहितं गावकमागछति तदा मापातव्यम् । 'ससणिद्ध मचे आगच्छइ नो आवियन्वे' सस्निग्धं स्नेहविशिष्ट चिक्कण मात्रकमागच्छति सदा नो आपातव्यम् , 'असणिद्ध मते आगच्छद्द आवियम्' अस्निग्धं चिकणतावर्जितं मात्रकम् मागच्छति तदा आपातव्यम् । शोकाः पुद्गला द्विविधा भवन्ति-चिकणा अचिक्कणाश्च, तत्र चिक्कणा बीयरहिता इत्यर्थः, चिक्कणाः सवीर्याः सस्निग्धा उच्यन्ते, ते उभयेऽपि देहस्य शैथिल्ये सपोजनितोष्ण्येन तापिताः सन्तो मोकेन सार्द्ध प्रपतन्तीति, 'ससाक्खे मत्ते आगच्छद नो आवियम्वे' सरजस्क रजोविशिष्टं प्रमेहरोगनन्यकणिकामिश्रितं मात्रकमागच्छति तदा न आपातव्यम् किन्तु परिष्ठापनीयम् 'असरक्खे मत्ते आगरछन आक्पि' अरजस्कं रजोरहितं मात्रकमागच्छति तदा आपातव्यम् । तन्मोकं कियपरिमित पातव्यम् अल्प वा सर्वे वा ! तबाह 'जाए जाए' इत्यादि, 'जाए जाए मोए आवियचे' जातं जातं मोकं मात्रकं सर्वमापातव्यम् । 'तंजहा' तयथा-'अप्पे वा बहुए वा अल्पं वा बहुकं वा, तत्सर्वे मोक पातव्यम् । अथोपसंहरनाह ‘एवं खलु एसा खुडिया मोपपडिमा अहामुत्त' इत्यादि 'जाव अणुपालिया भनइ' इत्यन्तम् , एवम् कभितप्रकारेण स्खलु एषा क्षुदिका मोकप्रतिमा यथासूत्र यथाकल्पं यथामार्ग यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता माझ्या तीर्थकराज्ञया भनुपालिता भवति, पतेषां पदानां व्याख्या पूर्वसूत्रे गता ॥ सू० ४१ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy