SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ग्ववहारको कुतो नाधिकं प्रायश्चित्तं दातम्या, स्था मासिकामतिसेवनानिमिचप्रायश्चित्तावसरे समायस्य द्वैमासिकं प्रायश्चित्तविधानं कृतं तथा षण्मासप्रायश्चित्तावसरे समायिकाय सप्तमासिकं प्रायश्चित्त वक्तव्यं स्यात् किन्तु तथा न कृत्वा षण्मासारधिकमेव प्रायश्चित्तं प्रतिकुचनाया अप्रतिकुञ्चनायाः कुतः कारणानिधीयते ! इति चेत् मत्रोच्यते--सत्यं भवता तर्कितम् षण्मासादप्यधिक प्रायश्चित्त दातव्यं प्रतिकुखिते, किन्तु यह बीतकम्पोऽयम् --- ___ अयं भाव-यस्य तीर्थकरस्य यावत्प्रमाणकमुस्कृष्ट तपःकरणं तस्य तीर्थकरस्य तीर्थ (शासने) मन्यसाधूनामुत्कृष्ट प्रायश्चित्तदानं तावत्प्रमाणकमेय, न ततोऽधिकं कदाचिदपि दातव्यम् । अन्तिमतीर्थकरस्य भगवतो महावीरस्वामिनः, उत्कृष्टं तपः पारमासिकं ततो भगवतो वर्द्धमानस्वामिनः शासने सर्वोत्कृष्टमपि प्रायश्चित्तदाने पाण्मासिकमेवेति । पाण्मासिर्फ परिहारस्थानं प्रतिसेवनयापि आलोचना कुर्वतोऽपि नाधिकमारोपणम् , अतस्त एव षण्मासा इति कथितम् ॥ सू०६।। सूत्रम् --जे भिक्खू बहुसोदि मासियं परिहारट्ठाणं पडिसेबित्ता आलोएज्जा । अपलिंचिय आलोएमाणस्स मासियं, पलिउंचिय आलोएमाणस्स दोमासियं ॥ २० ॥ छापा-यो मिचर्य हुशोऽपि मालिक परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रति कुरुध्य आलोचयतः मासिक, प्रतिफुझतय मालोषयतो छैमासिकम् || सू०७॥ भाष्यम्--'जे भिक्खू' इति । 'जे भिक्खू यः कश्चिद् भिक्षुः 'बहुसो' बहुशः त्रिप्रभृतिबहुवारानपि आस्तामे दो कारो, इत्यपिशब्देन संगृह्यते 'मासिप' मासिकम् 'परिहारद्वाण' परिहारस्थानम् 'पडिसेबित्ता' प्रतिसेव्य 'आलोएज्जा' मालोचयेत् आलोचना कुर्यात् तस्य 'अपलिउंचिय आलौएमाणस्स' अप्रतिकुञ्च्यालोचयतः प्रतिकुश्चनं माया, तामकृत्वा मायामन्तरेण शुद्धान्तःकरणेन मालोचयतः बालोचनां प्रायश्चित्तविधानं कुर्वतः 'मासिय' मासिकमेकम् एकमासमात्रस्य प्रायश्चित्तं गुरुर्वदेत् । तत्रैव यदि-'पलिउंचिय' प्रतिकुञ्च्य मायापूर्वकम् आलोचयतः 'दौमासिय मासिकम् , हिमासेन निर्वर्तनयोग्यं गुरुकं लघुकं वा प्रतिसेवनानुसारि प्रायश्चित्तम् | अप्रतिकुञ्झ्यालोचयतो मासिकमेकं प्रायश्चित्तम् प्रतिकुञ्च्यालोचयतो द्वितीयो मायानिष्पन्नो गुरुमासो दीयते इति द्वैमासिकम् । इयमत्र मावना-केनाऽपि गीतार्थेन कारणेन जयनतया त्रीन् पारान् , बहुवारान् वा, मासिक परिहारस्थानं प्रतिसेषितम् , भालीचमाका न येनाऽप्रतिकुच्यालोचितं तस्मै एकमेव मासिक प्रायश्चित्तं दोयते, न तु याक्तो बारान् प्रतिसेवना मासिकस्य कृतवान् , तावन्ति मासिकानीति । अथ प्रतिकुश्चनया आलोचयति, ततो विसीयो मासो मायनिष्पन्नो दीयते इति द्वैमासिकमिति संक्षेपः ॥ सू० ७ ।।
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy