________________
माध्यम् ० १ ० ६-७
परिहारस्थानसेविनः प्रायवित्तविधिः ७
"आकारैश्च स्वरैश्व, पूर्वाऽपरव्याहताभिवगीर्भिः । ज्ञात्वा कुञ्चितभावं परोक्षज्ञानिनो व्यवहरन्ति ॥ १ ॥
परोक्षज्ञानिनः श्रत व्यवहारिण माचार्याः परान्तःकरणे विद्यमानां मायामा कारादिभिर्जानन्ति । तत्राऽऽकाराः शरीरगता भावविशेषाः । तत्र यः शुद्धस्तस्य सर्वेऽप्याकाराः संविग्नभावोपदर्शका भवन्ति, इतरस्य तु न तथा । तथा स्वराः विविक्ताः विस्पष्टाः अक्षुभिताश्च निम्सरन्ति । अशुद्धपुरुषस्य तु अव्यक्ताः अविस्पष्टाः क्षुभिता गदाश्च तथा शुद्धस्य वाणी पूर्वापराव्याहता, अशुद्धस्य वाणी पूर्वापरविसंवादिनी । एवं परोक्षज्ञानिनः श्रुतव्यवहारिणः- माकारैः स्वरैः पूर्वापरव्याहताभिश्च वाणीभिः तस्याऽऽलोचकस्य अन्तःकरणगतं कुञ्चितभावं ज्ञात्वा तथा व्यवहरन्ति । पूर्व मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्ड्यते, पश्चात् अपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति ।
अथ यदि विसदृशमालोचयति तदा गुरुणा वक्तव्यं यद्-भो भोः ! अन्य मुनिसमीपे गत्या स्वकीय परिहारस्थानस्य शुद्धिं कुरु । नाहं तवैतादृश्या सदस्या व्यालोचनायाः सद्भावमजानानः शुद्धि कर्त्तुं शक्रोमि, इति । शिष्यः पुनः प्रश्नयति-गुरो ! संसारपारावारसमुत्तरणकरण ! एतानि मासादीनि षण्मासपर्यन्तानि परिहारस्थानानि कुतः प्राप्तानि ! तबाह - उद्गमादिरूपत्रिकस्थानात् एतानि परिहारस्थानानि प्राप्तानि भवन्ति । मयं भावः - उद्गमोत्पादनेषणासु यद अकल्प्य प्रतिसे बनाया आचरणं तस्मादेवैतानि परिहारस्थानानि प्राप्तानि भवन्तीति ॥ सू० ५ ॥
सम्प्रति पाण्मासिकप्रायश्चित्तादूर्ध्वं प्रायश्चित्तं न भवतीति प्रदर्शयति- 'तेण परं' इत्यादि । सूत्रम् - तेण परं पलिउंचिए वा अपलिउंचिए वा ते चैव छम्मासा || सू० ६ ॥ छाया- ततः परं प्रतिकुम्बिते वा अप्रतिकुचिते वा त पव षण्मासाः ॥ सू० ६ ॥
भाष्यम् – 'तेण परं' इति । तेण परं' ततः परं तेनेति पञ्चभ्यर्थे तृतीया, अथवा 'तेन' इति अव्ययं ' ततः' इत्यर्थे, तथा च तेन ततः पाञ्चमा सिकप्रायश्चित्तस्थानात् परमूर्ध्वं पाण्मासिकादिपरिहारस्थाने प्रतिसेविते सति, आलोचनाकाले प्रायश्चित्तसमये 'पलिउंचिए वा' प्रतिकुञ्चिते वा प्रतिकुचन - माया तत्सहिते वा 'अपलिउंचिए वा' मप्रतिकुञ्चिते वा मायारहिते वा, मायापूर्वकम् अभायापूर्वकं वा आलोचिते इत्यर्थः । ते चेव छम्मासा' त एव षण्मासाः स एव प्रतिसेवनानिष्पन्नाः स्थिता मासाः षण्मासा एव, नाषिक प्रतिकुञ्चनानिमित्तमारोपणं कर्तव्यम् ।
"