________________
२१०
व्यवहारसूत्रे __ अय भावः–कस्यचित् शय्यातरस्य तैलशाला विपते तस्य अन्य एकोऽनेकेवाऽधिकारिणो भवेयुः, शालातस्तैलादीनां विक्रयकरणेन यो लामो जायते स एकस्य न भवति, किन्तु-मनेकेषु विभव्यते, तत्र यो विक्रेता-स यदि साधने तैलादिकं किमपि दयात् तादृशं वस्तु-तैलादिक साधूनां ग्रहीतुं न कल्पते इति निषेधसूत्रम् ॥ सू० १७॥
मथ विधिसूत्रमाह-~'सागारिपस्स' इत्यादि ।
सूत्रम् – सागारिग्रस्स चक्कियासाला निस्साहारणवक्फयपउत्ता तम्हा दावए एवं से कप्पइ पडिगाहितए ॥ सू० १८॥
छाया-सागारिकस्य चक्रिकाशाला निस्साधारणाऽवक्रयप्रयुक्ता, तस्माद् दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥सू०१८॥
भाष्यम् --'सागारियस्स' सागारिकस्य-शयातस्य-गृहस्थस्य 'चक्कियासाला' चक्रिकाशाला-सैलविक्रयशाला वर्तते किन्तु सा 'निस्साहरणचक्कयपउत्ता' निःसाधारणाऽवक्रयप्रयुक्ता निस्साधारण:--सागारिकमागरहितोऽवक्रयो विक्रयणम् , अत्र यत्किञ्चित्तैलादि, तसंजातलाभश्च भविष्यति तत्सर्व तवैव न मम, इत्येवंरूपेण प्रयुक्ता-नियोजिता मवेत् , स्वतन्त्ररूपेण तस्यैव चक्रिकस्य न तु सागारिकस्य तत्र भागो विपते 'तम्हा दावए' तस्मात् तादृशनिःसाधारणचक्रिकाशालामध्यात् यत् साधूचित्तं सैलादिकमन्यद्वा वस्तु आपणस्थविक्रेता दशात् 'एवं से कप्पइ पडिगाहित्तर' एवंप्रकारेण दीयमानं तैयादिकम् 'से' तस्यश्रमणस्य कल्पते प्रतिमहोतुम् ।
___ या खलु शाला साधारणा सागारिकभागयुक्ता भवेत् तन्मध्याद दीयमानं वस्तु साधूनां न कल्पते प्रतिग्रहीतुमिति सप्तदशसूत्रत्याशयः । या तु खल निस्साधारणा-सागारिकभागवर्जिता भाटकेन गृहीता, व्यापारमाश्रित्य चक्रिकस्य स्वतन्त्रा शाला भवेत्तन्मध्यान दीयमानं तैलादिकं वस्तु साधूनां कल्पते प्रतिग्रहीतुम् । इत्यष्टादशसूत्रस्याशयः, एवमनेऽपि गौडिकशालादिसूत्राणि बोध्यानीति ।। सू. १८॥