________________
भाष्यम् ४० ९ सू० १७-१८
चक्रिकाशा लागत वस्तुग्रहणाग्रहणविधिः २०१
दोषा यथा-भद्रकः सागरिकचिन्वति यदि स मे भिक्षां न गृह्णन्ति तेनाई साधुप्रतिम्मना वश्चितो भवामीति विचार्य तं ज्ञातकं बूते-पते साधवः शय्यातरत्वेभ ममाशनादि ग्रहीतुं नेच्छन्ति तदस्त्वमेतेभ्यः प्रभूतमशनादिकं देहि, यत्वं दास्यति तदहं तब प्रतिदास्यामीति । ज्ञातकश्चैवं कुर्यात् । अथवा स स्वयं तस्याशनादौ स्वकीयाशनादेः प्रक्षेपणं कुर्यादिति प्रक्षेपादिरूपभद्रकदोषाः संभवन्ति ।
प्रसङ्गदोषा यथा-सागारिकगृहस्थितज्ञातकाशनादेर्ब्रहणे सागारिकगृहप्रसङ्गाल्लोके शय्यातर पिण्डग्रहणाशङ्काऽवश्यम्भाविनीति प्रसङ्गदोषसम्भवः, अतो भगवता - एक गृहपृथग्गहैकचुल्ही. पृथक्चुल्ही मिष्पादितं सर्वविधमपि अशनादिकं सागारिकगृहसम्बन्धात् साधुनामकल्पयत्वेन प्रतिपादितमित्यलं विस्तरेणेत्यष्टसूत्रीभावः ॥ सू० ९-१६ ॥
पूर्वं सागारिकगृहस्थितिसंबन्धाचत्र निवसतस्तरस्वजनस्याऽपि अशनादि साधनां प्रतिग्रहीतुं न कल्पते इति प्रोक्रम्, साम्प्रतं पण्यशाला स्थितस्य साधुयोग्यवस्तुजातस्य ग्रहणे सागारिकसंबन्धासम्बन्धमधिकृत्य यथायोग विधिनिषेत्रं प्रदर्शयन् चक्रिकाशालादिपोडशसूत्रीमाह'सागारियस्स चक्कियासाला' इत्यादि ।
सूत्रम् - सागारियस्स चक्कियासाला साहारणवक्कयपत्ता तम्हा दात्रए नो से कप्पड़ पडिगाहित्तए । सू० १७ ॥
छाया -- सागारिकस्य चक्रिकाद्याला साधारणावकयप्रयुक्ता तस्माद् दद्यात् नो तस्य कम्पते प्रतिप्रीतुम् ॥ सू० १७ ॥
भाष्यम् –'सागारियरस' सागारिकस्य - शय्यातरस्य ' चक्कियाशाला' चककाशाचा तैलविक्रयशाला, कीदृशीत्याह - 'साहारणवक्कयप उत्ता' साधारणावकयप्रमुखा, तंत्र- पायारिकस्य अन्यस्य भागिकस्य च द्वयोः साधारण:- पमानोऽवक्रयः विक्रयणं तेन प्रयुक्ता - नियोजिता, यत् तस्यां शालायां तिलादि प्रक्षिप्यते, यश्च तत्र लाभो भवेत् तत्सर्वं सागारिकेण मागिकेन च साधारण - समानं, तञ्जातलाभादेः समानो भागो न्यूनाधिको वा भागो भविष्यतीति नियमेन प्रयुक्ता चकिकाशाला भवेत्, 'तुम्हा दावए' तस्माद दधात् तस्मात् - पाधारणावक्रयशालागत वस्तुजातमध्यात् यद्वस्तु साघोर्योग्यं तैलादिकं तदन्यद्वा सावचे दद्यात् तदा तदस्तु 'मो से कप्पर पडिगाहिचप' नो-नैव 'से' तस्य भ्रमणस्य कल्पते प्रतिग्रहीतुम् ।
रूप. २५