SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे यतं दीयते, दासादी व सोपाटि दिदी आदेशाय सत्कारपुरस्सरें दीयते, न तथा दासादिकृते, तथा आदेशस्य भोजनविधिसंपादनाय महान् प्रयत्नः ससंभ्रमं विधीयते दासादीनांतुन तादृशः प्रयत्नः क्रियते इत्यत आदेशस्य दासादेश्व सूत्राणां पृथक्करण सुचितमेवेति बोध्यम् ॥ सू० ७८ ॥ २०४ उपर्युक्तसूत्राष्टके मादेशादिविषयमधिकृत्य कथितम् सम्प्रति ज्ञातक्रमधिकृत्यैकगृहविषयं सूत्रचतुष्टयमाह्-'सागारियस' इत्यादि । सूत्रम् - सागारियस्स नायए सिया सागारियस्स एगबगडाए अंतो एगपयाए सागारियं चोवजीवs तम्हा दावए नो से कप्पर पडिगाहित्तए || सू० ९ ॥ छाया - सागारिकस्य ज्ञातकः स्यात् सागारिकस्य पकच गडा यामन्तः पकप्रजायां सागारिकं चोपजीवति तस्माद् दधात् नो तस्थ कल्पते प्रतिग्रहीतुम् ॥ ० ९ ॥ 'भाष्यम् – 'सागारियरस' सागारिकस्य - शय्यातरस्य, 'नायए सिया' ज्ञातकः - सागारिकस्थजनः स्यात्, तत्र - ज्ञातको नाम स्वजनः पूर्वसंस्तुतः १ यदि वा पश्चात्संस्तुतः २, यदि वा उभयसंस्तुतः स्वजनः ३ तत्र पूर्वसंस्तुतः - मातापितृपक्षवर्ती १, पश्चात्संस्तुतः कलत्रपक्षगतः २, उभयसंस्तुतः उभयपक्षवर्ती ३ भवेत्, 'सागारियरस' सागारिकस्य - शय्यातरस्य 'एगवगडाए' एकबगडायाम् - एकस्मिन् गृहे तस्य गृहस्य 'अंतो' अन्तः मध्ये 'एग पयार' एकप्रजायाम्, तत्र प्रजानाम चुल्ली, तदर्थस्तु प्रकर्षेण जायते पाकनिष्पत्तिरस्यामिति प्रजाचुल्दी, तस्याम्, अथवा 'एगपयाए' इत्यस्य एकपचायामिति च्छाया, तत्र पध्यते भोदनादिर्यत्र सा पचा चुल्हीत्यर्थः एका पत्रा एकपचा तस्याम्, 'सागारियं चोपजीवइ' सागारिकं चोपजीवति, सागारिकमाश्रियैव जीवनयात्रां निर्वहति सागारिकस्य काष्ठळवणगोरसमुद्रादिसूपोदकालशाकफलादिग्रहणपूर्वकमुपजीवति 'तम्हा दावए' तस्मात् तादृशात् सागारिकसंबन्धिस्वजनाशनमध्याद् अशनादिकं दधात् 'नो से कप्पर पडिगाहिए' नो तस्य - साधस्तत कल्पते प्रतिप्रहीतुम्, शय्यातरस्वजनपिण्डस्यापि शय्यातरवस्तुसंयोगात् शय्या तर पिण्डत्वदोष सद्भावात् । मनु[यतरस्य तज्ज्ञातकस्य च किमर्थमेका चुल्हो भवति ! तत्राह---यतस्तत्र चुहीक राज्ये गृह्णाति या या पृथक् चुल्हीं भवति तस्यास्तम्याः करमपि पृथग् गृह्णातीति तत्रत्यराज्यनियमात् करभीता लोका एकस्यामेव चुल्हिकायां पाकक्रियां कृत्वा स्वस्वभागं सर्वे गृहान्ति सतस्तत्र शय्यात्तरवस्तु संमिश्रणप्रसङ्गात्स आहारोऽपि शय्यातर पिण्डदोषदूषितो भवेदिति न करुपते ॥ सू० ९ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy