SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १९६ व्यवहारसूत्रे किमपि प्रकारकमुपकरणजात-वरुपायादिकम् 'परिम सिया' परिभ्रष्टं पतितं विस्मृतं वा स्यात् 'तं च केइ साइम्मिए पासेज्जा' तच्च पतितमुपकरणजातं यः कोऽपि साधर्मिकः श्रमणः पश्येत् तदा 'कप्पड़ से सागारकडे गहाय' कल्पते तस्य सागारकृतं गृहीत्वा 'दुरमेव अद्धाणं परिवत्तिए' दूरमेवाध्वानं परिवोढुम् दूरमार्गपर्यन्तं तस्योपकरणस्य वहनं कर्तुम्, तदनन्तरम् ' जत्थेव अन्नमन्नं पासेज्जा' यत्रैव मार्गेऽन्यमन्यं - साधर्मिकान्तरं पश्येत्, इत्यादि सर्व द्वादशसूत्रवद व्याख्येयम् ।। सू० १४ ॥ पूर्व प्रामानुधामं विहरतो मुनेः परिभ्रष्टोपलब्धोपकरणजातविषये विधिरुक्तः, सम्प्रति निर्मन्थनिर्मन्थी भिरन्योऽन्यस्य गृहीताधिकपात्रादि यमुद्दिश्य गृहीतं तस्याऽऽज्ञामन्तरेणाऽन्यस्मै न दातव्यमिति तद्विधिमाह - 'कप्पर णिग्गंथाण वा' इत्यादि । सूत्रम् - कप्पड़ गिम्याण वा, णिग्गंथीण वा अइरेगं पडिग्गई अन्नमन्नस्स अद्वा दूरमवि श्रद्धाणं परिवहित्तर वा धारितए वा परिग्ाहित्तए वा सो वाणं धारेers अहं वाणं धारेस्सामि अन्नो वा णं धारेस्सइ, नो से कप्पड़ तं अणाच्छिय अणामंतिय अन्नमन्नेसिं दाउँ ना, अणुप्पदाडं वा, कप्पड़ से तं आपुच्छिय आमंतिय अन्नमन्नेसिं दाउ वा अणुप्पदा वा ॥ सू० १५ ॥ छाया – कल्पते निर्मन्यानां वा निर्मन्थीनां या अतिरेकं प्रतिग्रहम् ( पतद्ग्रहम् ) अन्योन्यस्यार्थाय दूरमध्यध्यानं परिषोढुं वा धारयितुं वा परिग्रहीतुं वा, स वा तद् घारविष्यति, अहं वा तद् धारयिष्यामि मन्यो वा तद् धारयिष्यति, नो तस्य कल्पते तमनापृच्छय, अनामन्त्र्य अन्यान्येषां दातुं वा अनुप्रदातुं था, कल्पते तमापृच्छ्य आमन्त्र्य अम्याम्येषां दातुं वा अनुप्रदातुं वा ॥ सु. १५ ।। भाष्यम् – 'कप्पड़' कल्पते 'निम्माथार्ण वा' निर्मन्थानां वा 'णिग्गंधीण वा निर्मन्थीनां वा 'अइरेग' पडिग्गाह" अतिरेकं प्रतिग्रहं - पतदहं वा उपलक्षणाद् वस्त्रादिकं वा तत्रातिरेकं नाम यावत्प्रमाणकं यत्र पात्राद्युपकरणं शास्त्रसंमतं ततोऽधिकं यत् तद् अतिरेकं प्रतिग्रहम्, 'अन्नमन्नस्स अट्ठाए' मन्यान्यस्य अर्थाय प्रयोजनाय तत्राऽन्यस्याऽन्यस्यअमुकामुकस्य श्रमणाऽन्तरस्य प्रयोजनमुद्दिश्य तत्र - अन्यस्याऽर्थाय इदमविशेषितं सामान्यवचनम्, तेनान्यस्यान्यस्येति अमुकस्याऽमुकस्य साधर्मिकस्याऽर्थाय प्रयोजनाय गृहीत न तु समुच्चयरूपेण गृहीतमित्यर्थो बोध्यः, तत् 'दूरमवि अद्धाणं परिवहित्तए' दूरमपि अध्वानं मार्ग परिवोढुम्गृहीत्वा दूरमपि मार्ग गन्तुम्, 'धारेतर वा परिग्गहित्तए वा' धारयितुं वा परिमदीतुं वा, कल्पते अन्यस्य श्रमणस्य मन्यस्याः श्रमण्या वा कृते प्रमाणादधिकमपि वस्त्रपात्रादिकं परिवोदुम्
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy