SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे " 1 भाष्यम् - 'सेय' स च श्रमण: 'अहालहस्सगं यथालघुस्वकम् इत्यादि सर्व द्वितीय सूत्रवदेव व्याख्येम् विशेषोऽत्रायम् - यत्पूर्वसूत्रद्वये व्यहं यावद वहनं प्रतिपादितम् अत्र तु - 'एगाई वा दुयाई वा तियाई वा चउयाह का पंचाई वा' इति एकदिवसादारभ्य पञ्चदिवसान् यावत्, पञ्च विश्रामान् यावत् इति कथितम्, पुनश्चायं विशेष:- 'दूरमवि अद्धाणं परिवहितए ' पञ्चविश्रामपर्यन्तं दूरमपि अध्वानं परिवोद्धुं शक्नोति चेत् तं गवेषयेदिति । अयं भावः - वृद्धत्वेन पञ्चविश्रामान् कृत्वा नेतुं कल्पते किन्तु ते पञ्च विश्रामा अपि कोशद्वये एव भवितुमर्हन्ति न तु तदुपरि नेतुं कल्पते, अथवा शरीरदौर्बध्याद् द्वित्रादिदिवसानपि मार्गे स्थित्वा स्थित्वा गम्यते किन्तु तेन मार्गेण कोशद्वयपरिमितेनैव भाव्यम् एषा शास्त्रमर्यादेति । किमर्थमित्याह'एस मे वृदावासे भविस्सर' एतत् शय्यासंस्तारकं मे वृद्धावासेषु उपयोगि भविष्यतीति ॥ सु० ४ ॥ ઢ 3 पूर्वं शय्या संस्तारकस्य मार्गवहनसूत्रं प्रोक्तम् मार्गवहनप्रसङ्गात् स्थविरभावेनाऽसहायानां स्थविराणां दण्डकादि कल्पते इति मिक्षाचर्यायां तद्द्मणस्थापनविधिमाह-- 'पेराणं' इत्यादि । F सूत्रम् - येराण र भूमिपत्ताणं कप्पइ दंडए वा भंडए वा छत्तए वा मत्त वा लट्ठियं वा भिसे वा चेले वा वेलचिलिमिलि वा चम्मे वा चम्मकोसे वा चम्मपलिछेण वा अविरहिए ओवासे ठवेत्ता गाहावइकुलं भचाए वा पाणाए वा पचित्तिए वा निक्खमित वा, कप्पर वह संनियहचाराणं दोच्वंपि ओमाई अणुन्नवेत्ता परिहारं परिहरिए || सू० ५ ॥ छाया - स्थविराणां स्थविरभूमिप्राप्तानां कल्पते दण्डकं था भाण्डकं या छत्रर्क वा मात्रकं वा यष्टिकां वा भिसं वा चेलं वा वेलचिलिमिलीं वा चर्म वा धर्मको या चर्मपरिच्छेदकं या अधिरहिते अवकाशे स्थापयित्वा गाथापतिकुलं भक्ताय वा पानाथ वा प्रवेष्टुं षा निष्क्रमितुं वा करपते खलु संमिवृत्तचाराणां द्वितीयमपि मषप्रदमनुश्राव्य परिहारं परिहर्तुम् ॥ सू० ५ ॥ - भाष्यम् – 'पेरा' स्थविराणां वृद्धानाम् - जाव लक्षीणानाम् जरसा बीर्णानाम् 'थेर भूमिपत्ताणं' स्थविरभूमिप्राप्तानाम् दीक्षा श्रुत-वयोभिर्बुद्धानां ज्वरादिकारणेन गन्तुमशक्नुवतां वा 'कप्पड़' कल्पते 'दंडए चा' दण्डकं रजोहरणदण्ड वा 'भंडए वा' भाण्डक वा अनेक विघ सुपकरणजात मृत्पात्रं वा 'छत्तए ना' छत्रकं वा मस्तकाच्छादनकं वस्त्रम् नतु लोकप्रसिद्धं छत्र तस्याऽनाचीर्णरूपत्वेन दशवैकालिके निषेधात् 'मत्तर बा' मात्रकं वा तत्र मात्रकमुन्चार प्रस्रवण 1
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy