________________
Anmannel
१८६ .
म्यवाहार यस्मिन् गृहे ऋतुबद्धेकाले निवसति तस्मिन् गृहे 'ताए परसाए' तस्मिन् प्रदेशे यस्मिन् गृहप्रदेशे तिष्ठति तस्मिन् प्रदेशे-अन्तर्बहिरादिलक्षणे 'ताप भोपासंतराए' तस्मिन् अवकाशान्तरे-द्वयोर्मध्यभागलक्षणे 'जमिणं जमिण सेज्जासंथारगं लभेज्जा' यदिदं यदिदं शय्यासंस्तारकम्-शय्या च संस्तारक चेति समाहारे शय्यासंस्तारकम् यद् यत् शयनोपयोगि स्थान मदभिलषितं लभेत-प्राप्नुयात् 'तमिणं तमिणं ममेव सिया' तदिदं तदिदं सर्वं ममैव स्यात्भवतु, इति ब्रूते श्रमणस्तदा यदि 'पेरा य से अणुजाणेज्जा' स्थविराश्च गच्छनायका आचार्याः तस्याशटभावम् अवगम्य, अशठभावो नाम-मम लेष्मा प्रस्पन्दते स्वपतो मम श्लेष्माधिक्यं जायते अतो निर्वातस्थानमनुजानीत, मथवा अमुकं साधुमहं सदैव प्रतिपृच्छामि तत एतत्पा मम शय्यासंस्तारकर्मि यूयमनुजानीत, इत्यादिविषये तस्य ऋजुभावं ज्ञात्वा 'अणुजाणेज्जा' अनुजानीयुः-भाज्ञां दधुः, यथा-'यदिदं यदिदं त्वया लब्धं तत्सर्व शय्यासंस्तारकं तवैव भवतु' तदा तत्सर्व शय्यासंस्तारकम् 'तस्सेव सिया' तस्यैव-यो हि श्रमण एवं ब्रूते-ममेदं सर्वं तस्यैव तत् शय्यासस्तारकं स्यात् भवेत् । अथ यदि कदाचित् याचकस्य श्रमणस्य पूर्वोक्तविषये शठभाको लक्ष्यते तदा 'येरा य से णो अणुजाणेज्जा' स्थविराश्च तस्य श्रमणस्य शठभावेन कथनात् नो अनुजानीयु:-नाशां दधुः तदा ‘एवं से कप्पह अहारायणियाए' एवम् स्थविराज्ञाया अभावे तस्य कल्पते यथारास्निकतया .रत्नाधिकमर्यादया यल्लम्यते तत् 'सेज्जासंथारगं पडिग्गाहितए' शय्यासंस्तारकं प्रतिग्रहीतुम्-स्वीकत कल्पते, न ततस्ततः कर्तव्यमिति भावः । ऋतुबद्ध काले वर्षाकाले वा गृहे वसन् साधुः तत्र गुहे तत्प्रदेशे तदवकाशान्तरे वा यत् यत् शय्यासंस्तारक समते तत्तत् सर्व स्थविरानुज्ञयैव लघुज्येष्ठादिमर्यादया प्रतिग्रहीतुं कल्पते न तु स्वेच्छयेति तात्पर्यम् ।। सू. १ ।।
पूर्व शय्यासंस्तारकस्थानविधिरुक्तः, सम्प्रति शम्यासंस्तारकगवेषणविधिमाह-से य' इत्यादि ।
सूत्रम्-से य अहालहुस्सगं सज्जासंथारगं गयेसेज्जा जं चक्फिया एगेणं हत्थेणं ओगिज्म जाव एगाई वा दुयाई वा तियाई वा परिवहित्सए एस में हेमंतगिम्हामु भविस्सइ ।। सू०२॥
छाया - स स यथालघुस्यक शय्यासस्तारकं गवेषयेत् यत् शक्नुयात् एकेन इस्तेनाऽवगृश्य यावदेकाई वा पछ वा त्र्यहं वा अध्यानं परिवोदुम् , एतन्मे हेमन्त-- प्रीष्मेषु भविष्यति ॥ २॥