________________
कृताऽऽसीत् , राजपरावर्ते जाते द्वितीयमपि वारम्-तसिंहासनासीनराजसमापे 'ओग्गहे अणुन्नवेयवे सिया' अवग्रह:-अनुज्ञापयितव्यः स्यात् , तादृशपरिस्थितिसद्धाये द्वितीयमपि वारमवनहस्याऽनुज्ञापना कर्तव्येति भावः । यत्र प्रदेशे पूर्वराजा कालं गतः तस्य पूर्वावस्थितस्य राज्ञो राज्यस्थितिरपि परावृत्ता दायादैविभागोऽपि कृतः, अन्यन वा केचित् राक्षा तदासनं समासादितं तादृशेषु राजपरावर्तेषु द्वितीयमपि वारं श्रमणैः स्वकीयभावस्य ज्ञान-दर्शन-चरित्ररूपस्याऽचौर्यत्रतस्य च रक्षार्थमवग्रहोऽनुज्ञापयितव्यः, अन्यथा अदनादानदोषः समापोतेति भावार्थः । एवं द्वितीयमपि वारम् अनुग्रहाऽननुज्ञापनायामात्मविराधना संयमविराधना च संभवति, यथा-स नूतनो राजा निर्विषयत्वं कुर्यात् , जीवनस्य भेदं वा कुर्यादित्याद्यात्मविराघनासंभवः, संयमविराधना चाज्ञाभङ्गादिरूपेति तस्मात् यत्र स्थिरो जातः स एव पुनरनुज्ञापयितव्यः । सू० २७ ॥ इति श्री-विश्वविख्यात-जगदालभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगएपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहछत्रपतिकोल्हापुरराजप्रदत "जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालबह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री–घासीलालवति-विरचितायां"व्यवहारसूत्रस्य"
भाष्यरूपायां व्याख्यायां सप्तम उद्देशः समाप्तः ॥७॥