SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ व्यवहार ___ छाया-यो भिक्षुद्वैमासिक परिहारस्थानं प्रतिसेव्य मालोचयेत् । अपरिकुऽव्य आलोचयतः द्वैमासिकम् , परिकुंच्य आलोचयतः त्रैमासिकम् ॥ २० ॥ भाष्यम् – 'जे भिक्खु' इति । यः कश्चिद् भिक्षुः 'दोमासिय' द्वैमासिकम् 'परिहारद्वाणं' परिहारस्थानम् 'पडिसेचित्ता' प्रतिसेव्य 'यालोएग्जा' आलोचयेत् आलोचना कुर्यात् 'अपलिउंचिग आलोएमाणस्स' मप्रतिकुच्य आलोचयतः 'दोमासिय' मासिक 'सलिउंधिय शालोपमाणसा निकुठल्य परमालोचयतः 'तिमासियं' त्रैमासिकं विमान निर्वनयोग्य प्रायश्चित्तं दद्यात् प्रति कुञ्चनानिष्पन्नस्य गुरुमासस्य प्रक्षेपात् । अयं भावः--यदि कश्चित् साधुः द्वैमासिकं प्रायश्चित्तस्थानं प्रतिसेव्य शुद्धभावेन गुरुसमापे प्रायश्चित्तममिलषति तदा गुरुस्तस्मै त्रैमासिकं लघु गुरुकं वा प्रायश्चित्तं दद्यात् । यदि कदाचित स एव सकपटमालोचयेत् सदा मायाप्रयोगापराधाद गुरुस्तस्मै त्रैमासिकं प्रायश्चित्तं दयादिति । इह वैमाप्तिकं परिदारस्थानमात्रमापन्नस्य प्रतिकुञ्चकस्य दृष्टान्तः, तथाहि अस्ति कश्चित् कुञ्चिको नाम तापसः, स फलान्यानेतुं वनं गतः । अरण्यं परिभ्रमता तेन नद्यां मृतो मत्स्यो दृष्टः, तं समादाय भक्षितच, तेन तस्य रोगः समुत्पन्नः । ततस्तेन रोगपरिहाराय पृष्टो चैद्यः प्रोवाच -- किं त्वया भक्षितम् ! तापसोऽवदत्-फलमेव नान्यत्किञ्चित् । वैधेन कथितम्-घृतं पिब | तापसेन तथा कृतम् , किन्तु रोगो न नष्टः । सदा पुनस्तापसो वैधं कथितवान्-रोगो न गतः । वैथः प्रोवाच तापस ! सत्यं वद, ततस्तापसो यथावृत्तं मत्स्यभक्षणमाख्यातवान् । ततो निदानज्ञवैधेन वमन-विरेचनादिना रोगों निष्कासितः । एवमेव शुद्धभावेनोपस्थिताय शिष्याय गुरुद्वैमासिकं प्रायश्चित्तं दधात् येन तस्य विशुद्धिर्भवेदिति ॥ सू०२।। सूत्रम्-जे भिक्खू सेमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा । अपलि. उचिय आलोएमाणस तेमासियं, पलिउंचिय आलोएमाणस्स चाउम्मासियं ॥३॥ छाया-यो भिक्षुस्त्रैमासिकं परिहारस्थानं प्रतिसेय मालोजयेत् । मप्रतिकुम्थ्य मालोचयतः त्रैमासिकं, प्रतिकुच्य आलोचयतश्चातुर्मासिकम् ॥ सू• ॥ भाष्यम्-'जे भिक्खू' इति । यो भिक्षुः "तेमासिय' त्रैमासिक परिहारद्वाणं परिहारस्थान 'पडिसेबित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् , 'अपलिचिउंय' अप्रतिकुष्य 'आलोएमाणस्स' आलोचयतः 'तेमासिर्य' त्रैमासिकं त्रिमासेन निर्वर्तनयोग्य प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनाऽनुसारि गुरुर्दद्यात् , 'पलिउंचिय' प्रतिकुञ्य मायामाचर्य 'आलोएमाणस' आलोचयतः 'चाउमासिय चातुर्मासिकं मासनतुष्टयेन निवर्तनयोम्यं प्रायश्चित्त छचुकं गुरुकं वा प्रतिसेवनानुसारि दयात् ।
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy