________________
t
wromrnmnmannews
ध्यपहार सवित्त व्यवशमथितुम्-उपशमयितुं क्षमापयितुमित्यर्थः, निर्घन्यौनां दूरदेशगमने खौशरीरत्वात् संयमात्मविराधनादिवहुदोषसंभवादिति ॥ ० १३ ॥
पूर्व निर्मन्थनिर्ग्रन्थीनां व्यतिकृष्टाऽधिकरणक्षमापनविधिः प्रदर्शितः, सम्प्रति निम्रन्थमधिकृत्य व्यत्तिकृष्टकाले स्वाध्यायनिषेधमाह - 'नो कप्पइ निग्गंथाणं' इत्यादि ।
सूत्रम्-नो कप्पा णिग्गंथाणं विइगिट्टे काले सज्झायं करित्तए ॥ सू०१४॥ छाया-नो कल्पते निम्थानां व्यतिकृण्टे काले स्वाध्यायं कर्तुम् ।।स. १४ ।।
माध्यम्-नो कप्पइ' नो कल्पते ‘णिग्गंथाणं' निम्रन्थानाम् 'विइगिटे काले' व्यतिकृष्टे काले विकृते विपरीते काले अस्वाध्यायकाले यस्य स्वाध्यायस्य यः कालविशेषो निर्णतः शास्त्रे तदतिरिक्ते काळे, विकृत कालो द्विविधः-कालिक उत्कालिकश्चेति । तत्र कालिकः प्रथमपौरुण्या अनन्तरं चतुर्थपौरुषीतः पूर्वो यः कालः सः । विकतोत्कालिकः-सूर्योदयसूर्यास्तयोः सन्धिकालः मर्द्धरात्रिश्चेति । एवम्भूते विकृते काले 'सज्झाय' स्वाध्यायम्-माचारानिशीमसूत्रप्रमृतीनां मूलपाठस्याऽध्ययनम् 'करित्तए वा' कर्तुम् ॥ सू० १४ ।।
निम्रन्थीनां व्यतिकृष्टे काळे स्वाध्यायं कर्तुं कल्पते इति तद्विधिमाह-'कप्पड़ णिग्गथीम्' इत्यादि ।
सूत्रम्-कप्पाणिग्गयीणं विइगिटे काले सज्मायं करिसए हिमांथनिस्साए ॥१५॥ छाया-कल्पते मिर्ग्रन्थीनां व्यतिकृष्टे काले स्वाध्यायं कर्तुं निप्रधनिश्रया ॥१५॥
भाष्यम्- 'कप्पई' कल्पते "णिग्गंधीण' निम्रन्थीनाम् 'विइगिट्टे काले' व्यतिकृष्टे काले-विकालेऽपीत्यर्थः 'सज्झायं करितप' स्वाध्यायं आचाराङ्ग-निशीथसूत्राणामध्ययनं कर्त्तम् ।
ननु पूर्वसूत्रे व्यतिकृष्टकाल निर्ग्रन्थानां स्वाध्यायस्य निषेधः कृतः, प्रकृतसूत्रेण श्रमण्याः कृते स्वाध्यायस्य विधानं कियते अस्वाध्यायकालस्तु सर्वेषां समान एव भवतीति न्यायस्य समानत्वात् कथमस्वाध्यायकाले निम्रन्थीनां स्वाध्यायस्य विधानं कृतम् ? तत्राह-कारणिकमिदं सूत्रम् , यथा काचिनवदीक्षिता सूत्रावृति करोति स्त्रीस्वभावत्वाद् विस्मरणशीला च सा, संपत्ति स्वाध्यायाकरणेऽस्याः सूत्रं विस्मृतं भविष्यतीत्यादिकारणमादाय निम्रन्थ आज्ञा ददाति तदा तदाज्ञया तस्याः कृते व्यतिकृष्टकालेऽपि स्वाध्यायस्य विधानं कृतमिति नात्र दोषापत्तिरत आह-'णिग्गंध' इत्यादि, 'णिग्गंथनिस्साए' निन्थनिश्रया-श्रमणस्याज्ञया श्रमण्या सूर्योदयसूर्यास्तसन्धिकालार्द्धरात्ररूपास्वाध्यायेऽपि काळे स्वाध्यायः फल्पते, निषेधोऽत्र स्वातन्त्र्येण संयस्याः विकृतकाले स्वाध्यायकरणविषयको विझेय इति ॥ सु० १५ ॥