SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ७ ० ५ भोगिकस्य विसाम्भोगिककरणे विधिः १६७ उद्देष्टुमनुज्ञातुं वा 'धारित का' धारयितुं वा तस्याः प्रवर्त्तितीपदं दातुं कल्पते 'तं च णिग्गंथीओनो इच्छेज्जा' तां च निर्मन्थ्यो नेच्छेयुः यदि कदाचित् श्रमणेन प्रायश्चित्तदानादिना कृतशुद्वामपि अन्यगणादागतां तां श्रमणों ताः साम्भोगिका निर्मन्ध्यः अनापृच्छादि कारणवशात् स्वगणे स्थापयितुं नेच्छेयुः तदा 'सेवमेव नियं ठाणं' सेवेत एवं निजं स्थानम्, तत्र स्थानमलभमाना सा स्वकीयं यत्स्थान - स्वकीयगच्छरूपं तदेव सेवेत सत्रैव पुनः परावृत्य गच्छेदिति भावः । तासां तस्याः निर्मन्थ्याः स्वसमीपे आश्रयादाने इमानि कारणानि संभवन्ति-प्रथमं तु कारणं निर्मन्थीरतापृष्ठ्य तस्याः शुद्धिः कृतेति नेच्छेयुः पुनश्च यस्याः सा शिष्या तया सह तासां eer as an at real अस्माकमुपरि कोपं करिष्यतीति मन्दा तां नेच्छेयुः अथवा सा कर्मानुभावेन स्वभावतः प्रायः सर्वजनस्याऽपि द्वेष्येति तां नेच्छेयुः । यदि वा पूर्व भावानुभावतः प्रवर्त्तिन्या अप्रियेति अथवा सा प्रवर्त्तिनी शुद्धिकर्तॄणां साम्भो निकानां विषये केनापि कारणेन परम्परातः कुपिता वर्त्तते । यदि वा गच्छस्योपरि कुपिता वर्त्तते, अथवा संयत्या यो निर्ग्रन्थीसमुदायस्तस्य तद्विषये प्रवर्त्तिन्याः प्रतिस्पर्द्धा भवेत् यदियं न कस्या मपि शिष्या कर्त्तव्येति, अथवा ताः सर्वा अपि संयत्यः शृङ्खलाबद्राः परस्परं गृहावस्थासम्बन्धिन्यस्ततः 'नूतनेपाऽस्माकमपमानं करिष्यति, नास्माकं यादृच्छिकमाहारविहारादिकं भविव्यति' इत्यादिकारणैर्यदि तामुद्यतामपि नेच्छेयुस्तदा स्वगच्छे एव तथा प्रसन्नचेतसा प्रत्यावर्त्तितव्यं तदेव तस्याः श्रेय इति । उपलक्षणादिदं सूत्रत्रयं निर्मन्थविषयेऽपि अनुसन्धातत्र्यम् || सू० ३ ॥ पूर्वमन्यगणादागतां निर्ग्रन्थीम आलोचनादिना विशोध्य तया सह सम्भोगः कल्पते इति प्रतिपादितम् साम्प्रतम् निर्मन्थानुसन्धानात् साम्भोगिक निर्ब्रन्थस्यासाम्भोगिककरणे विधि प्रदर्शयन्नाइ - 'जे णिगंथा य' इत्यादि । सूत्रम् -- जे पिगंधा य णिग्गंधीओ य संभोइया सिया, नो वह कप्पड़ परोक्खं पाडिएक्कं संभोइयं विसंभोइयं करिए, कप्पड़ ण्डं पचक्खं पाढिएक्कं संभोइयं विसं भोइयं करिए, जत्थेव अन्नमन्नं पासेज्जा तत्थेव एवं बज्जा - अहं णं अज्जी ! तुमाए सद्धिं इर्ममि कारणमि पच्चवखं संभोइयं विसंभोइयं करेमि । से य पडितप्येज्जा एवं से नो कप्पड़ पच्च पाडिएककं संभोइयं विसंभोइथं करिए से य नो पडितप्पेज्जा एवं से कप्पड़ पच्चक्खं पाडिएक्कं संभोइयं विभोइयं करितए । सू० ४ ॥ छाया - ये निर्मन्थाश्च निर्मन्थ्यश्च साम्भोगिकाः स्युः, नो खलु कल्पते परोक्षे प्रत्येकं साम्भोगिकं विसाम्भोगिकं कर्णम् । कल्पते खलु प्रत्यक्ष प्रत्येकं सांभोगिकं विसाम्भोगिकं कम् । यत्रैवाऽन्योऽन्यं पश्येत् तत्रैव पत्रं वदेत्-महं खलु आर्य ! त्वया सार्द्धमस्मिन् कारणे
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy