________________
१६२
व्यवहारसूत्रे
'ती से इत्तरियं दिसं ना' तस्याः प्रायम्बित्तदानेन विशुद्धाय निर्ग्रन्थ्याः इत्वरिकां दिशम् -
कालिक पदवी 'अणुदिसं वा' मनुदिशं वा यावत्कालिकी प्रवर्त्तिन्यादिपदवीं वा 'उहि सिसए वा' उद्देष्टुमनुज्ञातुं वा 'धारितए वा' धारयितुं वा दातुं वा कल्पते इति । अनेन निर्मन्थीकथितप्रकारेण निर्मन्थस्य अन्यगणादागतस्य क्षताचारादिमतोऽपि विधिर्ज्ञातव्यः ॥ सू० २४ ॥
इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषा कलितललित कलापाळापकप्रविशुद्ध गद्यपद्यनैकप्रन्यनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुर राजप्रदत " जैनाचार्य ” – पद भूषित - कोल्हापुरराजगुरु - बालबाचारि - जैनाचार्य - जैनधर्म - दिवाकर पूज्यश्री- घासीलालब्रति - विरचितायां व्यवहारसूत्रस्य" माध्यरूपायां व्याख्यायां षष्ठ उद्देशकः समाप्तः ॥१६॥