________________
AnnnnnnnnwwwMAnwar
Mund
म्यवहारसूर्य एमाई प्राधिस तपःकर्म अप्रतिपाद्य उपस्थापयितुं पा संभोक्तु वा संवस्तुं वा तस्या इत्वरिकां दिशं वा अनुदिशे षा उद्देष्टु वा धारयितुं पा॥ सू० २३ ॥
भाष्यम्-'नो कप्पई' नो कल्पते 'णिगंयाण वा निग्गयीण वा निग्रन्थानां श्रमणानां पुनश्च निम्रन्थीनां श्रमणोनाम् “णिग्गंथि निर्मन्थी–श्रमाणीम् 'अन्नगणाओ आगये' भन्यगणात् गणान्तराद आगताम् पापस्थानसेवने प्रायश्चित्तग्रहणभयात् आगताम्, कोदमित्याह-खुयायार' क्षताचाराम्-क्षतो विनिष्ट आचारो-ज्ञानाधाऽऽचारो यस्याः सा क्षताचारा वाम् । 'सबलायार' शबलाचाराम् शबलः-कर्बुरः पितः आचारो विनयादिरूपः साध्वाचारो यस्याः सा शवयाचारा दूषिसाचारा ताम् । 'मिन्नायारे' भिन्नाऽऽचाराम्-भिन्नः-मेदमापन्न आचारो यस्याः सा भिन्नाचारा ताम् । 'संकिलिहायारचरिच' संक्लिष्टाऽऽचारचारित्राम् संक्लिष्टं क्रोधादिना मलिनम् आचारविशिष्टं चारित्रं यस्याः सा तथा ताम्, पुनश्च-'तस्स टागस्स' तस्य स्थानस्य यस्मिन् स्थाने प्रतिसेविते सति क्षताचारादिविशिष्टा जाता तस्य स्थानस्य 'अणालोएत्ता वा' अनालोच्य--तस्य पापस्थानस्याऽऽलोचनामकारयित्वा 'अपडिक्कमावेत्ता' अप्रतिक्रम्य तस्मापापस्थानादपरावर्त्य 'अनिंदावता अनिन्दयित्वा तस्य पापस्थानस्याऽऽमसाक्षिकी निन्दामकारयित्वा अगरिहावेत्ता' अगह यित्वा-गुरुसाक्षिकी गर्हामकारयित्वा 'अविउहावेत्ता' अवि कुटच-अतिचारसम्बन्धमविच्छेद्य अतिचारात पृथग् अकृत्येत्यर्थः 'अविसोहावेता' अवि. शोध्य सस्य पापस्थानस्य शोधनमकारयित्वा 'अकरणाए अणमुटावेत्ता' तस्य पापस्थानस्य पुनरकरणाय मनभ्युत्थाम्य 'अहारिहं पायच्छित्त' तबोकम्मं अपडिवज्जावेत्ता' यथाहै -यथायोग्य प्रायश्चित्तं तपःकर्म अप्रतिपाय-अस्वीकार्य तां निम्रन्थीम 'उवद्यावेत्तर वा पुनर्महारतेषु उपस्थापयितुम् , 'संभंजित्तए वा संभोक्तं वा तया अकृतप्रायश्चित या सह एकमण्डले माहारादि कर्तुम् , 'संवसित्तए वा संवस्तुं वा तया सह वसतौ स्थातुं या, पुनश्च-तीसे' तस्याः 'इनरियं दिसं वा' इस्वरिकां दिशं वा अल्पकालिकों प्रवर्तिन्यादिपदवीम् 'अणुदिसं वा' अनुदिर्श वा याच जोविकां चा प्रवर्तिन्यादिपदवीम् 'उदिसित्तए वा' उद्देष्टुं-दातुं न कल्पते एकम् 'धारित्तए वा' धारयितुं वा तस्याः स्वस्याः पदवी धर्नु वा न कल्पते, पूर्वोक्तविशेषणविशिष्टया निर्ग्रन्थ्या सह किमपि प्रकारक परिचयजातं निम्र या निम्रन्थस्य न कल्पते, यथा कुथितनागवल्लीदलसंपर्कण भकुथितान्यपि दलानि कुथितानि जायन्ते तथैव क्षताचारादिविशेषणविशिष्टाया निम्न्याः सहवासादन्या भपि निन्थ्यस्ताहयो भवन्ति । अत्राशयते कोऽपि—'पमापरहिया जा उ, सा कई सवला भवे' प्रमादराहता या तु सा कथं शयला भवेत् ! उत्तरमाह-'संवासमाइदोसेणाऽसबला सवला भवे' संत्रासादिदोपेण अशबला शबला भवेत् , इति ॥ १ ॥ तस्मातादृश्या निर्मन्ध्याः सहवासो वर्जनीय इति । एवं पूर्वोक्तविशेषाणविशिष्टस्य निर्ग्रन्थस्य विषयेऽपि सूत्रमनुसंधातव्यमिति ॥ सू० २३ ॥