________________
१५४
व्यवहारसूत्रे निगमः-प्रभूततरवणिग्जननिवासः, आश्रमः-तापसैरावासितः, पश्चादपरोऽपि लोकस्तत्रागत्य वसति, संवाह:-कृषीवलैान्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् पर्वतशिखरस्थितजननिवासः, समागतप्रभूतपथिकजननिवासो दा, संनिवेश:-समागतसार्थवाहादिनिवासस्थानम् । एषु प्रामादिषु, 'एगवगडाए' एफवगडायाम् एका वगडा परिक्षेपः प्राकारः प्रकोटा इति लोकप्रसिद्धो यस्यां सा-एकवगडा, तस्यामेकवगडायाम् । तथा-'एगदुवाराए' एकद्वारायाम् एकं द्वारं यस्थाः सा एकद्वारा तस्याम्, तथा 'एगनिक्खमणपयेसाए' एकनिष्क्रमणप्रवेशायाम् , एक निष्क्रमणं-बहिनिगमनमार्गः, एकः प्रवेशः-प्रवेशमार्गों यस्याः सा एकनिष्कमणप्रवेशा तस्याम् पतादृश्यां वसतौ इति शेषः, 'नो कप्पइ' नो फल्पते-न युज्यते । केपामेतादृशवसती वासो न कल्पते ? तत्राह--'बणं' इत्यादि, 'बणं अगरयाणं' यहनाम्-अनेकेषाम् अकृतश्रुतानाम्-अनधिगताचाराङ्गनिशीथादिसूत्राणाम् भगोतार्थानामशिवादिकारणवशादेकत्र संप्राप्तानाम् 'एगयो' एकतः- एकत्र एकस्थाने मिलित्वा वस्तुं-वास कर्तम् ऋतुबद्धकाल वर्षाकाले या न कल्पते इति पूर्वेण सम्बन्धः । यतः मगीतार्थसंगस्य दोपबाहुल्यात् तेषाम् ऋतुबद्धकाले वसतां मासलघु, वर्षाकाले चतुर्लघुकं प्रायश्चित्तं भवतीति । अपवादमाह-अस्थि य इत्य ण्ई केई आयारपकप्पघरे' मन्त्र 'ई' शब्दो वाक्यालकारे, अस्ति चात्र यथोक्तविशेषणविशिष्टायां वसतौ कश्चित् माचारप्रकल्पधरः-आचाराग-निशीथादिसूत्रधारकः एकोऽपि यदि भवेत् तदा तादृशवसतो ऋतुबद्धकाले वर्षाकाले वा निवासकरणेऽपि, 'नत्यि य इत्य ई केइ छेए वा परिहारे वा' मास्ति-न भवति अत्र वसतो वासेऽपि तेषां वसतां कश्चित् छेदो वा परिहारो वा, माचारप्रकल्प धराधिष्ठितयथोक्तवसतो बहूनामकृतश्रुताना वर्षाकाले अतुयद्धकाले वा निवसतां छेदनामकं परिहारनाम कमन्यता प्रायश्चित्तं न भवतीति भावः । गीतार्थेन सह वसतां केन कारणेन प्रायश्चित्तं न भवति, यतो हि-गीतार्भस्तेषां मार्गदेशको भवति, यथा केचित्पुरुषा अव्या मार्गभ्रष्टा भवन्ति तत्र कश्चिन्मार्गदेशकस्तान मार्ग प्रदर्श नगर प्रवेशयति, एवं गीतार्थोऽपि मोक्षपथपरिभ्रष्टानां मोक्षपथप्रदर्शको मवति तेन सह वसतां न किमपि प्रायश्चित्तं भवति, न तथा अगीतार्थ इति । 'नत्यि य इत्थ हं केइ आयारपकप्पधरे' नास्ति-न विद्यते चात्र यथोक्तवसतौ खल्छ कश्चिदाचारप्रकल्पधरः -आचारानिशीथादिसूत्रार्थज्ञाता, तदा तादृशवसतौ वासकरणे 'से संतरा छेए या परिहारे वा' तेषां सान्तरात् यावतो दिवसान् तत्र स्थितास्तावत्प्रमाणरूपात् स्वकृतात् अपराधात् छेदो वा परिहारो वा, आचारप्रकल्पाऽनधिष्ठितवसतौ वासकरणात् तेषां छेदनामकं परिहारनामकमन्यद्वा यथाशास्त्रं यथाकालं च प्रायश्चित्तं भवतीति भावः ॥ सू. १७ ॥