SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ६ ० १७ अगोतार्थानामेकपाकारादिवसतिवासविधिः १५३ वसन निवासं कुर्वन् 'नो अइक्कमई' नो कथमपि पतिकामति अतिचारवान् न भवति, कारणाकारण. ज्ञानकुशलवात् । एतौ द्वादपि सूत्रोक्तावतिशयौ तस्यैव गणावच्छेदकस्य भवतः, यो हि गणावच्छेदको नियमतः आचार्यों भविता भविष्यति वा । यः पुनर्गणावच्छेदको गणावच्छेदकत्वे वर्तमान आचार्यपदानहः वस्य रामेही अतिशयो न भवतः ।। सु. १६ ॥ उक्ता आचार्योपाध्यायगणावच्छेदकानामतिशयाः, सम्प्रति वसतिकासप्रसङ्गात् अगीवार्थानामे कप्राकारादियुक्तवसती वासनिषेधमाइ–'से गामंसि वा' इत्यादि । सूत्रम् - से गामंसिया जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनि. स्वमणप्पसाए नो कप्पड़ बहण अगडमुयाणं एगयो बथए, अस्थि य इत्थई केइ आयारपकप्पधरे नस्थि य इत्थ ई केइ छेए वा परिहारे वा, नस्थि य इत्य एई केइ आयारपकप्पधरे से संतरा छेए वा परिहारे वा ॥ सू०१७ ॥ छाया-अथ प्रामे घा यावदाजधान्यां वा एकवगडायां पा एकद्वारायां वा एकनिष्कमणप्रवेशायां वा नो फरपते बहूनाम्-अकृतयुतानामेकतो वस्तुम् , अस्ति पाच खलु कश्चिदाचारप्रकल्पधरः नास्ति मात्र खलु कश्चित् छेदो वा-परिहारो वा नास्ति चात्र कश्चिद् आचारप्रकल्पधरा तेषां सान्तरात् छेदो या परिहारो वा ।। सू० १७ ॥ भाष्यम् – 'से गामसि वा' मन्त्र 'से'-शब्दोऽयशब्दार्थवाचकः, ततच 'से' मथ प्रामे, 'जाव रायहाणिसि था' यावद् राजधान्यां वा, मन्त्र यावत्पदेन-'नगरंसि वा खेडसिचा कब्बडंसि वा मडंबंसि वा दोणमुहंसि वा पट्टणंसिवा णिगमंसिवा आसमंसि वा संवाहं सिवा संनिससि वा' इति संग्राह्यम् | नगरे वा खेडे वा कर्बटे वा मरम्ने वा द्रोणमुखे वा पड़ने का (पत्तने वा) आश्रमे वा संवाहे वा संनिवेशे वा, इतिष्ठाया। तत्र ग्रामः-वृत्तिवेष्टितः, आकर:-सुवर्णस्नाघुत्पत्तिस्थानम् , नगरम् -अष्टादशकरवर्जितं जननिवासस्थानम्, खे-धूलिप्राकारपरिन्तिप्तम्, कटम्कुत्सितनगरम् , महम्बे -सार्धकोशवग्रान्तमामान्तररहितम्, द्रोणमुख-जलस्थलपथोपेतो जननिवासः, पत्तनं-समस्तवस्तुप्रासिस्थानम् तद् द्विविधं भवति जलपत्तनं स्थलपत्तनं चेति, नौभिर्यत्र गम्यते तज्जलपत्तनम् , यत्र च शकटादिभिर्गम्यते सत् स्थलपत्तनम् , यद्वा शकादिभिनभिर्वा यगम्यं तत् पत्तनम् , यत् केवलं नौभिरेव गम्य तत् पट्टनम् , उक्तश्च - "पत्तनं शकटैगम्य, घोटकनीभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत् प्रचक्षते" ॥१॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy