________________
भी पीतरागाय नमः
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचित-माप्यसमलस्कृतम्
श्री-व्यवहारसूत्रम्
मङ्गलाचरणम् वर्द्धमानं जिनं नत्वा, गणीशं गौतम तथा । ___ व्यवहारागमे भाष्यं, घासीलालेन तन्यते ॥१॥ इतः पूर्व बृहत्कल्पसूत्रं व्याख्यातम् । सम्प्रति व्यवहारसूत्रं वित्रियते-अस्य व्यवहारसूत्रस्प बहाकल्पसूत्रेण सहाऽयमभिसम्बन्धः- बहत्कल्पे सामान्यत पद प्रायश्चित्तमुक्तम्, न तु तदानविधिरालोचनविधि , व्यवहारे तु प्रायश्चित्तदानमालोचनाविधिश्चाऽभिधाम्यते । तदनेन सम्बन्धेनाऽऽयातस्यास्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते
अत्र व्यवहारमहणेन व्यवहारी, व्यवहरणीयं चेति द्वयमपि सूचितम् । व्यवहारि-व्ययहरणीययोरमावे व्यवहारस्यैबाऽसंभवात् , तो यथा व्यवहारस्य प्ररूपणा कर्तव्या, तथा व्यवहारि-व्यवहरणीययोरपीति, तत् त्रयाणामपि प्ररूपणां कुर्वन्नाह भाष्यकार:-'क्वहारो' इत्यादि । भाष्यम्--वहारो ववहारी, ववहरणिज्जा य जे नहा परिसा ।
एएसिं तु पयाण, पत्तेयं खलु पख्वणं चोच्छे ॥१॥ छाया-व्यवहारो व्यवहारी, व्यवहरणीयाश्च ये यथा पुरुषाः ।
पतेषां तु पदानां, प्रत्येकं खलु प्रकपर्णा यक्ष्ये ॥१॥ अवचूरी .. 'ववहारो' इति । व्यवहारः, व्यवहियने दीयते यद्यस्य प्रायश्चित्तमापति सदानविषयीक्रियतेऽनेन स व्यवहारः । 'यवहारी' व्यवहारी व्यवहरतीत्येवंशीन्छः व्यवहार कियाप्रवर्तकः प्रायश्चित्तदायक इति यावत् 'य' च 'जे पुरिमा' ये पुरुषाः, मत्र पुरुषग्रहणं पुरुषोतमो धर्म इति ज्ञापनार्थम् । पुरुषपदेन स्त्रियोऽपि परामृष्टा भवेयुः, तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात् । 'जहा' यथा येन वक्ष्यमाणप्रकारण 'बवहरणिज्जा' व्यवहरणीयाः न्यवहारविषयीकर्तव्याः- 'एएमि पयाण' पतेषां पदानाम् व्यवहार-व्यवहारिव्यवहरणीयाना त्रयाणाम् 'तु' तु-अपि 'पसेय' प्रत्येकम्, पकैकस्य पदस्य 'परूवर्ण' प्ररूपणा व्याक्ष्यां संक्षेपतो विस्तरतश्च 'खल खल-निश्चयेन 'घोच्छ वक्ष्ये कथयिष्यामि ॥१॥