SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ भाग्यम् उ० ४ ० २५-२२ परिकानिवृत्तस्य पुनरागमने विधिः १२५ मिति परिभूतः सन् ततश्चतुगत्रात् पञ्चरात्राहा परतः 'थेरे पासेज्मा' स्थविरान् स्वकीयगणनायकान् पश्येत् पुनरपि च तस्य भावः प्रत्यावृत्तो भवेत् तदा स भूयोऽपि प्रथमोपसंपदीय यधा पूर्व तत्प्रथमतया उपसंपदि स्थितः तद्वत् तेषां स्थविराणां पावें 'पुणो भालोपज्जा' पुनरपि प्रथमोपसंपदीव भूयोऽप्यालोचयेत् आलोचनां कुर्यात् स्वकीयापराध गुरुसमीपे वचसा प्रकाशयेत् 'पुणो पडिक्कमेना' पुनभ्योऽपि प्रतिकामेत् तत्पापस्थानात् पुनरकरणतया प्रत्यावर्तनरूपं प्रतिकमणं कुर्यात् 'पुणो छेयस्स परिहारस्स उचट्ठाएजमा' पुनर्भूयोऽपि छेदाय छेदप्रायश्चित्तमहणाय परिहाराय वा परिहारतपोग्रहणाय वा उपतिष्ठेत उपस्थितो भवेत् , विपरिणते अपरिगते वा भावे यत्किञ्चित् प्रायश्चित्तस्थान प्राप्तवान् , तस्मिन् पारस्थाने आलोचित प्रतिकान्ते सति गणनायकेन यत् छेदनामर्फ परिहारनामकं वा प्रायश्चित् निर्दिष्टम् तत्सम्यक् श्रद्धाय तस्य करणार्थ मुपतिछेत अभ्युबतो भवेत् । प्रथमं स्वगच्छात् विनिर्गतः पुनर्भावपरावर्तनेन स्वगच्छं समागतः तदनन्तरमाचार्येण यत् प्रायश्चित्तं दीयते तस्य सर्वस्यापि परिपालनाय समुषतो भवेदिति भावः । किमर्थ छेदादिप्रायश्चित्तार्थमभ्युबतो भवेत् ! तत्राइ-'भिक्खुभावस्स अद्वार ' भिक्षुभावस्प भिक्षुत्वस्याऽयि प्रयोजनाय 'यथाऽवस्थितं मे भिक्षुस्वं पुनरपि भूयात्' इत्येवमर्थम् , अथवा भिक्षमावो नाम-स्मारणा, वारणा, नोदना, प्रतिनोदना, तत्र विस्मृतेऽर्थे स्मारणा १, अतिचारादेः प्रतिषेधनं वारणा २, स्खलितस्य पुनः शिक्षणं नोदना ३, स्खलितस्य पुनः पुनर्निटुर शिक्षापणं प्रतिनोदना ।। एनाभिर्यथावस्थितो भावो भिक्षुभावः, एता यथा पूर्वमासीरन् तथेदानीमपि स्युरित्येवमर्थम् 'दोच्चपि श्रोग्गहे अणुन्नवेयव्ये सिया' द्वितीयमपि वारमवग्रहोऽनुज्ञातव्यः स्यात् भवेत् , द्वितीयवारमवमहानुज्ञा गृहीयात् 'कप्पड़ से एवं वदित्तए' कल्पते 'से' वस्य एवं वक्ष्यमाणप्रकारेण वक्तुम् । कथमित्याह-'अणुजाण मंते' अनुजानीत भदन्त ! हे भदन्त ! 'मित्रोम्मई' मितभवग्रहम् , पत्रावग्रहेत्युपलक्षणं गमनादीनाम् , तथाचाऽयमर्थः-मितं प्रमाणयुक्तं मर्यादायुक्तमवग्रहम् , मितं गमनं प्रयोजमवशतः, मितमवस्थानम् विश्रामनिमित्तम् , मित निषीदनं, मितं - वरवर्तनादिकम् । तत्र मितनिषीदनं स्वाध्यायादिनिमित्तम् , मितत्वावर्त्तनं पार्श्वपरितापकारणात् , भादिशब्दात् मितभाषणं कार्ये सभापतिते भाषणावसरमावाद , मितभोजनम् पककुचिपूरणमात्रस्य भगवताउनु ज्ञातात् , हे भदन्त ! लत्सर्वमनुजानीत 'अहालंद' यथालन्दं यथाकालं 'धुवं' ध्रुवम् गच्छमर्यादया यदवस्यं कर्तव्यम् 'निययं नियतं यावदवधावनिकामर्यादा तावदहमपि न त्यक्यामि अयश्यकरणीयम् 'निच्छइयं नैश्चयिकं यावत् सहायान् न लमे तावत् अवश्य निश्चयभावेनाऽनुप्ठेयम् तथा 'वेउष्ट्रिय व्यावर्तितम् प्रतिदिन पक्षचातुर्मासिकसंवत्सरादौ क्षामणादिषु वा भनेकप्रकारमाझाविलोपन कृतम् , इत्येतत्सर्वमनुजानीत क्षमध्वमित्यर्थः । 'तो पच्छा कायसंफार्स' व्य. १६
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy