SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२० व्यवहार भाष्यम् –'चरियापविढे मिक्लू' चरिकानिमित्तं ये श्रमणा प्रामानुपामगताः तेषां मध्यात् एकतरं श्रमणमधिकृत्य कथ्यते चरिकाप्रविष्टो भिक्षुः श्रमणः स्वगच्छीयस्थविराणामाझामन्तरेण विहत्त प्रवृत्तः साधुः 'जाव चउरामपंचरापाओ' यावत् चतूरात्रात्पञ्चरात्रावा, अन्न यावत्पदेन -'एकद्वित्रि' इति पदं गृह्यते ततश्चायमर्थः-एकद्वित्रिचतुःपञ्चगवात् , यथा एकरात्रात् द्विरात्रात् त्रिराप्रात् चतूरात्रात् पञ्चरात्राद्वा परं 'थेरेपासेज्जा' स्थविरान् स्वकीयगणनायकान् पश्येत् एकादिपश्चराधानन्तरं यदा पूर्वस्थविरैः सह मिलेदित्यर्थः तदा तस्य स्थविरैः सह मिलितस्य 'सच्चेव आलोयणा' सैवालोचना तिष्ठति या खलु आलोचना भन्यस्मागणादागते उपसंपद्यमाने वित्तीणां 'सच्चेव पडिक्कमण' तदेव परिक्रमणम् अन्यगणादागस्य तस्मिन् गणे उपसंपद्यमाने यत् तस्मात् पापस्थानात् प्रत्यावर्तनरूपं तदेव, 'सन्वेव ओग्गहस्स पुन्वाणुन्नवणा चिहइ' सैव चावग्रहस्य पूर्वानुज्ञापना तिष्ठति या अनुज्ञापना अन्यदीयगणादागते उपसंपद्यमाने च साधर्मिकावग्रहस्याऽनुज्ञापनाकृता आसीत् सैवेति 'अहालंदमवि उग्गहे' यथालन्दमप्यवाहे यथाकालमपि, अत्रापिशब्दः संमाबनायाम् तेन न केवलं यथाकालमेव किन्तु चिरमपि यथाकालं यावत्ततो गच्छात् तस्य भावो न विपरिणमति तावदवप्रहे अवग्रहस्य सैव पूर्वाऽनुज्ञापना तिष्ठति, आज्ञामन्तरेण विद्वारप्रवृत्तः साघु वित् एकद्वित्रिचतूरात्रपञ्चरात्रपर्यन्तं विहृत्य स्थविरान् दृष्टा भवदाज्ञामन्तरेणाहं विहारं कृतवान् इत्येवंरूपेणाऽऽलोचना कर्त्तव्या, प्रतिकमागं कर्तव्यम् । तथा यत्रेताबकालं स्थितः तत्रयस्थविराज्ञामादाय पुनः यस्य स्थविरस्य पाधै पूर्वमासीत् तदाज्ञायामेव भूयोऽवस्थितो भवेत् । तथा यावत्पर्यन्तं हस्तरेखा शुध्येत् तावत्कालमपि स्थविराज्ञामन्तरेण न तिष्ठेदिति भावः ।। सू. २०॥ सूत्रम्-चरियापविढे भिक्खू परं चउरायपंचरायाओ थेरे पासेज्जा पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स परिहारस्स उपहाएज्जा मिक्खुभावस्स अट्टाए दोच्चपि ओगगहे अणुन्नवेयव्ये सिया, कप्पड से एवं बदितए-अणुजाणह भंते ! मिभोगई अहालंद धुर्व निययं निच्छइयं वेउष्टियं तो पच्छा कायसंफार्स ।। मू० २१ ।। छाया-चरिकाप्रविष्टो भिक्षुः परं चतूरात्रपञ्चरात्रावा स्थविरान् पश्येत् पुनरालोचयेत् पुनः प्रतिक्रमेत् पुनश्छेदस्य परिहारस्योपतिष्ठेत् भिक्षुभावभ्यार्थाय द्वितीयमप्यवग्रहोऽनुशातम्यः स्यात् कश्पते तस्य एवं वक्तुम्-अनुजानीत भदन्त ! मितमवग्रहम् यथालन्द भुषं नियतं नैश्चयिकं ध्यावृत्तम् ततः पश्चात् कायर्सस्पर्शम् ॥ सू० २१ ॥ भाष्यम्-~'चरियापविट्टे भिक्खू चरिकाप्रविष्टः स्थविराज्ञामन्तरेण एकतो विहारादिनिमित्तं गतो भिक्षुः 'परं चउरायपंचरायाओ' परं चतूरात्रात् पञ्चरात्राद्वा इत्यत्र व्याख्यानतो विशेषप्रतिपत्तिस्ततः परमित्यस्यायमर्थः-परम् परिणते भावे चतुःपञ्चरानात् पूर्व परतो वा यदि चरिकाप्रविष्टस्य श्रमणस्य भावो विपरिणतो भवेत् यथा कोऽत्र स्थास्यति, अत्रतो मया निष्क्रमितव्य
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy