SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ग्यवहारसूत्र भाष्यम्--'भापरियउपज्झाए' आचार्यः उपाध्यायश्च :सरमाणे स्मरन् अयमुपस्थापनाह इाते जानानः नवदीक्षितोऽयं छेदोपस्थापनीयचारित्र प्राप्तुं यौग्योऽस्ति, इत्येवं जामानः 'परं चउरायपंचरायाओं' परं चतूरात्रात पसरावाद्वा 'कप्पागं' कम्पाकं यः पड्जीवनिकादिसूत्रार्थ प्राप्तस्तं 'मिक्व' भिभु नवदीक्षितं मुनिम् 'णो उबवावेई' नो उपस्थापयति-छेदोपस्थापनीयचारित्रं न समर्पयति तदा आचार्यस्योपाध्यायस्य या छेदपरिहारादि प्रायश्चित्तमापद्यते । तत्र यदि कदाचित् 'कप्पागे' कल्पाके छेदोपस्थापनीयचारित्रप्राप्तियोग्ये तस्मिन् सति 'अस्थि याई से केइ माणणिज्जे कप्पागे' अस्ति चाऽपि 'से' तस्य महावतरोपणयोग्यनवदीक्षितश्रमणस्य कश्चित् माननीयः संसारपर्यायिकः पिता ज्येष्ठो भ्राता, अन्यो वा कश्चित् स्वामी कल्पाकः भावी पञ्चमहावतारोपणयोग्यः सः नवदीक्षितः प्रतिक्रमण न जानाति पञ्चरात्रेण दशरात्रैग पञ्चदशराप्रेण वा सहैव महानतारोपणमावश्यक भवेत् तदा 'से' तस्य प्राचार्यस्य उपाध्यायस्य वा 'णत्थि याई से के छए या परिहारे या' नास्ति न भवति कश्चित्तस्याचार्यस्योपाध्यायस्य वा छेदो वा परिहारो वा उपलक्षणादन्यदपि दशरात्रतपःप्रमृतिकं वा प्रायश्चित्तम् । यदि नवदीक्षितस्य महावतारोपणयोग्यतायुक्तस्याऽपि यदि माननीयः पितादिर्भवति स च दशरात्रात्परं प्रतिक्रमणाभ्यासाऽनन्तरं महावतस्याधिकारी भविष्यतीति ज्ञात्वा भाचार्यः 'उभयोः सदैव पञ्चमहावतारोपणं करिष्यामि' इति कृत्वा पूर्वदीक्षितस्योपस्थापने विलम्बं करोति तदा भाचार्यस्य उपाध्यायस्य वा छेदादिकं प्रायश्चित्तं न भवति, माननीयेऽनुस्थापिते तस्योपस्थापनायाः अयोग्यत्वादिति । 'नस्थि याई से के माणणिज्जे कप्पागे' अथ नास्ति चाऽपि कश्चित् नवदीक्षितस्य माननीयः भावी कल्पाकः उपस्थापनायोग्यः पिनादिः तदा चतूरात्रात् पञ्चरात्रावा परमपि नोपस्थापयति तदा 'स' तस्याचार्यम्योपाध्यायस्य वा 'संतरा छेए वा परिहारे वा' सान्तरात् स्वकृतात्-अन्तरात अपराघात् यावन्ति दिनानि तस्योपस्थापनेऽन्तरितानि तावन्ति दिनानीत्यर्थः छेदो वा परिहारो वा छेदनामक परिहारनामके पश्चरात्रादिकं तपःप्रभृतिक वा प्रायश्चित्तं भवति । मयं भावः – यदि चतुरात्रात्पग्मन्यानि चत्वारि दिनानि यावत् नोपस्थापयति तदा आचार्यस्य उपाच्यायस्य वा प्रत्येक प्रत्येक दिनचतुष्टये-प्रथमचतुष्टये द्वितीयचतुष्टये च प्रायश्चित्तं चतुर्गुरुकं भवति । अथ यदि प्रथमद्वितीयचतुष्कादनन्तरमन्यानि चत्वारि दिनानि लवयति तत्र नोपस्थापयति तदा पइलघुकं प्रायश्चित्तं भवति, ततोऽप्यन्यानि चत्वारि दिनानि भतिवाहयति चेत् तदा षड्गुरुकं प्रायश्चित्तं भवति । ततोऽपि यद्यन्यानि चवारि दिनानि लायति तदा चतुर्गुरुकछेदः प्रायश्चित्त भवति । ततः परं यधन्यानि चत्वारि दिनानि लक्ष्यति, तदा षड्गुरुकछेदः प्रायश्चित्तं भवति । तदनन्तरमेकैदिवसातिकमे मूलाऽनवस्थाप्यपाराश्चितानि प्रायश्चित्तरूपेण भवन्तीति ।
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy