________________
भाग्यम् ७०५ २० १-९ माया-दोना शेषकालव कालपिहरणविधिः १०५
षष्टमनुज्ञासूत्रमाह- कप्पा आयरिय०' इत्यादि ।
'कप्पई' कल्पसे 'आयरियउवज्ञायस्स' माचार्योपाध्यायस्य 'अप्पतइयस्स' मारमतृतीयस्य मात्मा स्वयं तृतीयो यत्र स मात्मतृतीयः द्वाभ्यामात्मभिन्नाभ्यां साधुभ्यां सहितस्तस्य 'वासावासं बधए' वर्षावासं वस्तुम् ॥ सू० ६ ॥
प्रथसप्तम वर्षावासमधिकृत्य निषेधविषयं गणावच्छेदकसूत्रमाइ-'नो कप्पई' इत्यादि ।
नो कप्पई न कल्पते ' गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पतइयस्स झात्मतृती यस्य आत्मभिन्नसाधुव्यसहितस्य 'वासारासं पत्थए' वर्षावासं वस्तुम् ॥ मु० ७ ।।
अथाष्टममनुज्ञासूत्रमाइ-'कप्पइ गणा०' इत्यादि ।
कप्पइ' कल्पते 'गणावच्छेययस्स' गणावच्छेदकस्य 'अप्पचउत्यास' मास्मरतुपस्पमात्मा स्वयं चतुर्थो यत्र स आत्मचतुर्थः आत्मभिन्नैस्त्रिमिः साधुभिः सहितस्य 'वासावार्स वत्थर' वर्षावास वस्तुम् कल्पते इति मूत्राटकसंक्षेपार्थः ।
अयं भावः-हेमन्तग्रीष्मकालमधिकृत्याचार्योपाध्यायविषयं निपेधानुज्ञागर्भितं सूत्रद्वयम् , तत्राधसूत्रे हेमन्तप्रीष्मयोरेकाफिन भाचार्योपाध्यायस्य विहरणनिषेधः, द्वितीयसूत्रे आत्मद्वितीयस्य तस्य विहरणानुज्ञेति सूत्रद्वयमाचार्योपाध्यायविषयकम् २ १ एवं सूत्रद्वयं गणावच्छेदकस्य हेमन्तग्रीष्मकालविषये मावनीयम्, तनाद्यसूत्रे आत्मद्वितीयस्य प्रतिषेधः, द्वितीयमन्त्रे त्वात्मतृतीयस्यानुज्ञा । एवमेषामेव चत्वारि सूत्राणि वर्षावासविषयाणि पेदितव्यानि, तत्राये है सूत्रे आचार्योपाध्यायस्य यथा -प्रथमसूत्रे आचार्योपाध्यायस्यात्मद्वितीयस्य प्रतिषेधः, द्वितीये स्वात्मतृतीयस्यानुज्ञा ६ । तृतीयसूत्रे गणावच्छेदकस्यात्मतृतीयस्य प्रतिषेधः, चतुर्थे स्वात्मचतुर्थस्यानुज्ञेति सूत्राष्टकभावार्थः ८ । अत्र ऋतुबद्धकाले वर्षाकाले चेति कालदये जघन्यतो यथाक्रम गन्छः पश्चकः सप्तकश्च भवितुमर्हनि, पञ्चपरिमाणमस्येति पञ्चकः, सप्तपरिमाणमस्येति सप्तकः, किमुक्त भवति-ऋतुबद्धकाळे पञ्चको गन्छः पञ्चसाधुसमुदायरूपः, वर्षाकाले च सप्तकः सप्तसाधुसमुदायरूपों गच्छो भवति । कथमित्याह-ऋतुबद्ध काले जघन्यत आचार्य उपाध्यायो वा आत्मद्वितीयः गणावच्छेदकस्त्वाम्मनृतीय इत्येवं पञ्चको गम्छो भवति । वर्षाकाले जघन्यत भाचार्य उपाध्यायो वा भात्मतृतीयः. गणावच्छेदकश्चात्मचतुर्थ इत्येवं सप्तको गच्छो भवति । उत्कर्षतः कालदयेऽपि द्वात्रिशत्सहन्नसाधुसमुदायरूपो गच्छो भवति, यथाहि-भगवत ऋषभदेवस्वामिनो ज्येष्ठस्य गणधरस्य ऋषभसे नस्य पुण्डरीकाऽपरनाम्नो द्वात्रिंशत्सहस्रो गच्छ मासीत् । शेषपरिमाणो जघन्योत्कृष्टमध्यगनो गच्छो मध्यमो भवति । अत्र सूत्राष्टके जधन्यपरिमाणो गच्छ; प्रतिरादित इति ॥ सू०१-८॥
म्प.११