SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ १० ११-१२ अाचार्याधनिया निर्मन्यस्यायस्थाननिषेधः ८५. नो तस्य कल्पते मनाचार्योपाध्यायतया भवितुम् 'से तस्य निन्थस्य नवस्य बहरस्य तरुणस्य चाऽनाचार्योपाध्यायतया आचार्योपाध्यायविरहिततया भवितुं गणे बर्तितुं स्थातुं न कल्पते । माचायोपाध्यायरहितः सन् स गणे न वसेत् अनायकस्थितौ भनेकदोषसंभवात् तस्मात्कारणात् 'से पुष्वं. आयरियं उरिसावेत्ता' स नवादिः श्रमणः पूर्व प्रथमतः माचार्य गणनायकम् उद्देश्य गणे गणनायकं स्थापयित्वा 'तो पच्छा उवमाय' ततः पश्चादाचार्यस्य स्थापनाऽनन्तरम् उपाध्यायमुद्देश्य स्थापयित्वा पुनः कल्पते. स्थातुमिति भावः । एवमाचार्योपाध्यायस्य विद्यमानतया मवितुं कल्पते । एवमाचार्यस्य वचनं श्रुत्वा शिष्यः पृच्छति-'से किमाहु भते' इति, 'से किमाहु भंते ! अथ हे भदन्त ! किं कस्मात् कारणाद् भगवन्त एवमाहुः कथयन्ति यत् निम्रन्थस्य नवडहरतरुणस्य भाचार्थमरणे प्रथममाचार्य स्थापयित्वा तत्पश्चात् उपाध्याय स्थापयित्वा तयोनिश्रया स्थातुं कल्पते इति कथमेवम् ! तत्राऽऽचार्यः प्राइ-'दुसंगहिए' इत्यादि । 'दुसंगहिए समणे णिमाथे' द्विसंगृहीतः श्रमणो निर्ग्रन्थः, द्वाभ्यां संगृहीतः संरक्षित एव श्रमणो निर्ग्रन्थः सदा भवति । श्रमणेन निर्घन्धेन सदैवाचार्योपाध्याययुक्तेनैव भवितव्यम् , न तु ताभ्यां विरहितेन कदाचिदपि भाव्यमिति । काम्यां द्वाभ्याम् ! तत्राह-'जहा' इति । 'तंजडा' तथा'आयरिएणं उवज्झापण य' आचार्येण उपाध्यायेन च संगृहीत एव श्रमणो निर्मन्थः सदा भवतीति । ननु किमर्थमेवमुक्तम् यत् आचार्योपाध्यायरहिता नवदीक्षिता डहराः तरुणाश्च स्थातुं नाईन्ति ! तत्राह–माचार्योपाध्यायसंरक्षणरहितानामस्वामिकानां तेषां स्वपरसमुद्वा बहवो दोषाः समाप: तन्ति, तथाहि-संरक्षणरहिता बालसाघवः 'अनाथा वय'-मिति कृत्वाऽन्यगणे गच्छन्ति, न शास्त्रमधीयते, प्रत्युपेक्षणादिकमपि यथासमयं न कुर्वन्ति, संयमे शिथिला भवन्ति, यथेच्छ भ्रमन्ति, गृहस्थपर्याये वा गच्छेयुः, इत्यादिस्वस्समुद्भवा दोषा इति । परसमुद्भवा दोषा यथा-पार्थ. स्थादयो गृहस्थाः परतीथिका वा क्षुल्लकान् 'अस्वामिका एते' इति कृत्वा तगच्छाद निष्कामयेयुः, ततः पार्श्वस्थास्तान पार्श्वस्थत्वे परिणमयन्त्रि, गृहस्थास्तान् गृहस्थपर्याये परिणमयन्ति, अन्यतीर्थिकाः भन्यतार्थिकान् कुर्वन्ति, इत्यादिका बहवो दोषा नवानां विषये समुत्पद्यन्ते । तथा बहराणामिमे दोषा:-'अनाथा वयं जाताः' इति मनस्याघातेन क्षितचित्ता भवन्ति, स्तेना वा स्वपक्षे परपके चोत्तिष्ठन्ति, ते तान् लिपरिणमय्य हरन्ति, अन्यत्र नयन्ति, अपरिपक्वबुद्धित्वेन परीक्छः खिन्नाः संयमे कम्पमाना भवेयुरन्यत्र वा स्वयं गच्छन्तीत्यादयः डहरदोषाः। तरुणानां तु दोषकलापसंभवः, तारुण्यस्य तथास्वभावात् , तथाहि-न वर्ततेऽस्माकमाचार्य उपाध्यायो वा, स्वतन्त्रा वयमिति बुद्धया न संयम सुचारुतया परिपालयन्ति, गृहस्थैः सह राजकथादिकां चतुर्विषां विकयां यथेच्छ कुर्वन्ति, न यथासमयं प्रतिलेखनादिक्रिया कुर्वन्ति, माचार्यादिपदपिपासया दाऽन्यत्र गमनं व्य, १२
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy